स्वधर्म्म
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वधर्म्मः, पुं, क्ली, (स्वस्य धर्म्मः ।) स्वजात्युक्ताचारः । यथा, -- “श्रेयान् स्वधर्म्मो विगुणः परधर्म्मात् स्वनुष्ठितात् । स्वधर्म्मे निधनं श्रेयः परधर्म्मो भयावहः ॥” इति श्रीभगवद्गीतायां ३ अध्यायः ॥ * ॥ अपि च । “यो यस्य विहितो धर्म्मः स तज्जातिः प्रकी- र्त्तितः । तस्मात् स्वधर्म्मं कुर्व्वीत द्विजो नित्यमनापदि ॥ चत्वारो वर्णा राजेन्द्र चरेयुश्चापि वाश्रमाः । ऋते स्वधर्म्मं विपुलं न ते यान्ति परां गतिम् ॥ स्वधर्म्मेण यथा नॄणां नरसिंहः प्रतुष्यति । न तुष्यति तथान्येन वेदवाक्येन कर्म्मणा ॥” इति श्रीनारसिंहपुराणम् ॥ * ॥ स्वधर्म्मत्यागी कृतघ्नः । यथा, -- सनातन उवाच । “स्वधर्म्मं हन्ति यो विप्रः सन्ध्यात्रयविवर्ज्जितः । अतर्पणञ्च यत् स्नानं विष्णुनैवेद्यवञ्चितः ॥ विष्णुमन्त्रविष्णुपूजाविष्णुभक्तिविहीनकः । एकादशीविहीनश्च श्रीकृष्णजन्मवासरे ॥ शिवरात्रौ च यो भुङ्क्ते श्रीरामनवमीदिने । पितृकृत्यं देवकृत्यं स कृतघ्न इति स्मृतम् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ५१ । ४५ -- ४७ ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वधर्म्म¦ पु॰ स्वस्य येदादिविहतो धर्मः। स्वानुरुपे वेटाद्युक्तेआचारादिधर्मे।
“यो यस्य विहितो धर्मः स तज्जातिःप्रकीर्त्तितः। तस्मात् स्ववर्मं कुर्य्याच्च द्विजो नित्यमना-पदि” नरसिहपु॰।
“श्रेयान् स्वधर्मो विगुणः पर-घर्मात् स्वनुष्ठितात्। स्वधर्मे निधनं श्रेयः परधर्मोभयावहः” गीता।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वधर्म्म¦ mn. (-र्म्मः-र्म्मं)
1. Peculiar duty or occupation, as praying of a Bra4hman, fighting of a soldier, &c.
2. Property, peculiarity. E. स्व own, धर्म्म virtue.
