स्वप्नः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वप्नः, पुं, (स्वप + “स्वपो नन् ।” ३ । ३ । ९१ । इति नन् । यद्वा “कॄवृजॄषिद्रुपनीति ।” उणा० ३ । १० । इति नन् ।) निद्रा । इत्यमरः । १ । ७ । ३६ ॥ यथा, -- “तस्मान्न जागृयाद्रात्रौ दिवास्वप्नश्च वर्ज्जयेत् । ज्ञात्वा दोषकरावेतौ बुधः स्वप्नं मितञ्चरेत् ॥”) प्रसुप्तस्य विज्ञानम् । यथा, -- “पूर्ब्बदेहानुभूतांस्तु भूतात्मा स्वपतः प्रभुः । रजोयुक्तेन मनसा गृह्णात्यर्थान् शुभाशुभान् ॥ करणानान्तु वैकस्ये तमसाभिप्रवर्द्धिते । अस्वपन्नपि भूतात्मा प्रसुप्त इव चोच्यते ॥” इति सुश्रुते शारीरस्थाने चतुर्थेऽध्याये ॥) दर्शनम् । इति मेदिनी ॥ * ॥ सुस्वप्ना यथा, -- नन्द उवाच । “केन स्वप्नेन किं पुण्यं केन पुंसां भवेत् सुखम् । कोऽपि कोऽपि च सुस्वप्नस्तत् सर्व्वं कथय प्रभो ! ॥” श्रीभगवानुवाच । “वेदेषु सामवेदश्च प्रशस्तः सर्व्वकर्म्मसु । तत्रैव काण्वशाखायां पुण्यकाण्डे मनोहरे ॥ सुष्यक्तो यश्च सुस्वप्नः शश्वत् पुण्यफलप्रदः । तत् सर्व्वं लिखितं तात ! कथयामि निशामय ॥ स्वप्नाध्यायं प्रवक्ष्यामि बहुपुण्यफलप्रदम् । स्वप्नाध्यायं नरः श्रुत्वा गङ्गास्नानफलं लभेत् ॥ शुक्लाः सुमनसो वस्त्रममेध्यालेपनं फलम् ॥ शैलप्रासादसफलवृक्षसिंहनरद्विपान् । आरोहेद्गोऽश्वयानञ्च तरेन्नदह्रदोदधीन् ॥ पूर्ब्बोत्तरेण गमनमगम्यागमनं मृतम् । सम्बाधान्निःसृतिर्देवैः पितृभिश्चाभिनन्दनम् । रोदनं पतितोत्थानं द्विषताञ्चावमर्द्दनम् । यस्य स्यादायुरारोग्यं वित्तं बहु च सोऽश्नुत्रे ॥” इति वाभटे शारोरस्थाने षष्ठेऽध्याये ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वप्नः [svapnḥ], [स्वप्-भावे नक्]
Sleeping, sleep; अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् R.12.81;7.61;12.7; Ku. 2.8.
A dream, dreaming; स्वप्नेन्द्रजालसदृशः खलु जीवलोकः Śānti.2.2; स्वप्नो नु भाया नु मतिभ्रमो नु Ś.6.1; R.1.6.
Sloth, indolence, sleepiness; Ms.9.13;12.33.
The state of ignorance (?); भावाद्वैतं क्रियाद्वैतं तथात्मनः । वर्तयन् स्वानुभूत्येह त्रीन् स्वप्नान् धुनुते मुनिः ॥ Baāg.7.15.62.-Comp. -अन्तिकम् consciousness in dream. -अवस्था a state of dreaming. -उपम a.
resembling a dream.
unreal or illusory (like a dream). -कर, -कृत् a. inducing sleep, soporific, narcotic. -गृहम्, -निकेतनम् a sleeping-room, bed-chamber; दुःखेन लोकः परवानिवागात् समुत्सुकः स्वप्ननिकेतनेभ्यः Bk.11.17. -ज a. dreamt. -तन्द्रिता languor produced by drowsiness. -दर्शनम् dreamvision. -दृश् a. dreaming. -दोषः involuntary seminal discharge, pollutio nocturna. -धीगम्य a. perceptible by the intellect only when it is in a state of sleep-like abstraction; रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषं परम् Ms.12. 122. -प्रपञ्चः the illusion of sleep, the world appearing in a dream. -विचारः interpretation of dreams. -शीलःa. disposed to sleep, sleepy, drowsy; न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जन Bg.6.16. -सृष्टिः f. the creation of dreams or illusions in sleep.
