सामग्री पर जाएँ

स्वयंप्रभः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वयंप्रभः, पुं, (स्वयं प्रभा यस्य ।) चतुर्व्विंशतिभा- ष्यर्हदन्तर्गतचतुर्थार्हन् । इति हेमचन्द्रः ॥ (स्वयंप्रकाशे, त्रि । यथा, भागवते । ३ । १६ । २७ ॥ “अथ ये मुनयो दृष्ट्वा नयनानन्दभाजनम् । वैकुण्ठं तदधिष्टान विकुण्ठञ्च स्वयंप्रभम् ॥” रसायनाधिकारोक्तसोमसंज्ञकौषधिविशेषः । स्वयंप्रभो महासोमो यश्चापि गरुडाहृतः ॥” इति सुश्रुते चिकित्सितस्थाने १९ अध्याये ॥ स्त्री, अप्सरोविशेषः । यथा, महाभारते । ३ । ४३ । २९ ॥ “घृताची मेनका रम्भा पूर्ब्बचित्तिः स्वयंप्रभा ॥”)

"https://sa.wiktionary.org/w/index.php?title=स्वयंप्रभः&oldid=180149" इत्यस्माद् प्रतिप्राप्तम्