सामग्री पर जाएँ

स्वयंहारिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वयंहारिका, स्त्री, स्त्रीविशेषः । सा च ब्रह्म- मानससृष्टदुःसहस्य निर्माष्ट्यां पत्न्यां जाता । यथा, -- “दुःसहस्याभवत् भार्य्या निर्माष्टिर्नाम नामतः । जाता कलेस्तु पाप्मायां ऋतौ चाण्डालदर्शनात् ॥ तयोरपत्यान्यभवन् जगद्व्यापीनि षोडश । अष्टौ कुमाराः कन्याश्च तथाष्टावतिभोषणाः ॥ नियाजिका वै प्रथमा तथैवान्या विराधिना । स्वयंहारकरी चैव भ्रामणी ऋतुहारिका ॥ स्मृतिबीजहरे चान्य तयोः कन्ये सुदारुणे । अष्टमी द्वेषणी नाम कन्या चातिभयावहा ॥ एतासां कर्म्म वक्ष्यामि दोषप्रशमनञ्च यत् । धान्यम्खलाद्गृहाद्गोष्ठात् पयः सर्पिस्तयापरा ॥ समृद्धिमृद्धिमद्द्रव्यादपहन्ति च कन्यका । सा स्वयंहारिकेत्युक्ता सदान्तर्द्धानतत्परा ॥ महानसादर्द्धसिद्धमन्नागारस्थितम् तथा । परिवेश्यमानञ्च सदा सार्द्धम् भुङ्क्ते च भुञ्जता ॥ उच्छिष्टानां मनुष्याणां हरत्यन्नञ्च दुर्द्धरा । कर्म्मान्ताङ्गारशालाभ्यः सिद्ध्यृद्धिं हरति द्विज ॥ गोस्त्रीस्तनेभ्यश्च पयः क्षोरहारी सदैव सा । दध्ना घृतं तिलात्तैलं सुरागारात्तथा सुराम् ॥ रङ्गं कुसुम्भकादिभ्यः कार्पासात् सूत्रमेव च । सा स्वयंहारिका नाम हरत्यविरतं द्विज ॥” तच्छान्तिर्यथा, -- “कुर्य्यात शिखण्डिकोद्बद्धां रक्षार्थं कृत्रिम- स्त्रियम् । रक्षा चैव गृहे लेख्या वर्ज्या चोच्छिष्टता तथा ॥” शिखण्डिकोद्वद्धाम् स्थाने शिखण्डिनोद्वन्द्वमिति च पाठः । “होमाग्निदेवताधूपभस्मना च परिक्रिया । कार्य्या क्षीरादिभाण्डानामेवं तद्रक्षणं स्मृतम् ॥” इति मार्कण्डेयपुराणे दुःसहवंशोत्पत्तिनामा- ध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वयंहारिका¦ स्त्री ब्रह्मणो मानससृष्टपुत्रस्य दुःसहस्यनिर्माष्ट्या भार्य्यायामुत्पन्ने कन्याभेदे मार्कण्डेयपु॰। तत्कन्याश्चाष्टौ नियोजिकादयः तासां कर्माणि तत्रोक्तानितत्र
“एतासां कर्म वश्यामि दापप्रशमनञ्च यत्” इत्युपक्रमे[Page5381-b+ 38]
“धान्यं खलात् गृहात् गोष्ठात् पयःसर्पिस्तथा परा। समृद्धिमृद्धिवद्द्रव्यमपहन्ति च कन्यका। सा स्वयंहारि-केत्युक्ता सदान्तर्द्धानतत्परा” इति तस्याः कर्मोक्तम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वयंहारिका/ स्वयं--हारिका f. " self-seizing " , N. of a daughter of निर्मार्ष्टि(and दुःसह; she is described as exercising an evil influence on certain substances e.g. by abstracting the colour from saffron and the thread from cotton) Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=स्वयंहारिका&oldid=261147" इत्यस्माद् प्रतिप्राप्तम्