स्वरभङ्ग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वरभङ्गः, पुं, (स्वरस्य भङ्गो यस्मात् ।) गल- रोगविशेषः । अस्य विवरणं स्वरभेदशब्दे द्रष्टव्यम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वरभङ्ग¦ पु॰ स्वरस्य कण्ठध्वनिभेदस्य भङ्गो यस्मात्। रोग-भेदे स्वरभेदोऽप्यत्र तल्लक्षणादि सुश्रु॰ उक्तं यथा
“अथातः स्वरभेदप्रतिषेधमध्यायं व्याख्यास्यामः। अत्यु-च्चभाषणविषाध्ययनाभिघातशीतादिभिः प्रकुपिताः पव-नादयस्तु। ते शब्दवाहिधमनीषु गताः प्रतिष्ठां हन्युःस्वरं भवति चापि हि षड्विधः सः। वातेन कृष्णनय-[Page5382-b+ 38] नाननमूत्रवर्च्चा भिन्नं शनैर्वदति गर्दभवत्स्वरञ्च। पित्तेनपीतवदनाक्षिपुरीषमूत्री ब्रूयाद्गलेन च विदाहसमन्वि-तेन। कृच्छ्रात्कफेन सततं कफरुद्धकण्ठो मन्दं शनैर्वदतिवापि दिवा विशेषात्। सर्वात्मके भवति सर्वविकारसम्पद-व्यक्तता च वचसस्तमसाध्यमाहुः। धूप्येत वाक्क्षयकृतेक्षयमाप्नुयाच्च वागेष वापि हतवाक् परिवर्जनीयः। अन्तर्गतस्वरमलक्ष्यपद चिरेण मेदोऽन्वयाद्वदति दिग्धग-लोष्ठतालुः। क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्चसहोपजातः। मेदस्वितः सर्वसमुद्भवश्च स्वरामयी यो नस सिद्धिमेति। स्निग्धात् स्वरातुरनरानपकृष्टदोषान्संयोजयेद्वमनरेचनवस्तिभिश्च। नस्यावपीडमुखधावन-धूमलेहैः सम्पादयेच्च विविधैः कबलग्रहैश्च”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वरभङ्ग¦ m. (-ङ्गः) Fluttering of the voice, &c., as indicative of agitation or feeling. E. स्वर a sound or note, भङ्ग a breaking.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वरभङ्ग/ स्वर--भङ्ग m. " broken articulation " , stammering L.
स्वरभङ्ग/ स्वर--भङ्ग m. hoarseness HYog.