सामग्री पर जाएँ

स्वरभेदः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वरभेदः, पुं, (स्वरस्य भेदो यस्मात् ।) स्वरभङ्ग- रोगः । यथा । अथ स्वरभेदाधिकारः । तत्र स्वरभेदस्य निदानसम्प्राप्तिपूर्ब्बकं लक्षणमाह । “अत्युच्चभाषणविषाध्ययनाभिघातैः सन्दूषणैः प्रकुपिताः पवनादयस्तु । स्रोतःसु ते स्वरवहेषु नताः प्रतिष्ठां हन्युः स्वरं भवति चापि हि षड्विधः सः ॥ अध्ययनमुच्चैर्व्वेदादिपाठः । अभिघातः कण्ठादि- देशे लगुडादिभिः । एतैरत्युच्चभाषणादिभिः- श्चतुर्भिः संदूषणैरन्यैरपि । निजैर्दुष्टहेतुभिः । स्रोतःसु सुश्रुतोक्तेषु चतुर्षु । प्रतिष्ठाम् स्थितिम् । हन्युः स्वरमिति लक्षणम् । स्वरभेदः षड्विधः । वातपित्तकफसन्निपातक्षयमेदोभवभेदैः ॥ * ॥ तत्र वातिकस्वरभेदिनो लक्षणमाह । “वातेन कृष्णनयनाननमूत्रवर्च्चा भिन्नं शनैर्वदति गर्द्दभवत् स्वरञ्च ।” * । पित्तेनाह । “पित्तेन पीतनयनाननमूत्रवर्च्चा ब्रूयाद्गलेन स च दाहसमन्वितेन ॥” नलदाहोऽत्र वचनसमय एव बोद्धव्यः ॥ * ॥ कफेनाह । “ब्रूयात् कफेन सततं कफरुद्धकण्ठः । खल्पं शनैर्व्वदति चापि दिवाविशेषात् ॥” दिवा सूर्य्यरश्मिभिः कफस्याल्पीभावात् ॥ * ॥ सन्निपातेनाहः सर्व्वात्मके भवति सर्व्वविकारसम्प- त्तच्चाप्यसाध्यमृषयः स्वरभेदमाहुः ॥” * ॥ अयजमाह । “धूप्येत बाक्क्षयकृते क्षयमाप्नुयाच्च स्वादेषु चापि हतवाक् परिवर्ज्जनीयः ॥” न्नाक् धूप्येत सधूमेव निःसरति क्षयञ्चाप्नुयात् वागेव ॥ * ॥ मेदोभवमाह । “अन्तर्गलं स्वरमलक्ष्यपदं चिरेण मेदोऽन्वयाद्वदति दिग्धगलस्तृषार्त्तः ॥” अन्तर्गलं गलमध्ये एव स्वरं वदति । दिग्धगलः मेदसा श्लेष्मणाबलिप्तगलः । तृषार्त्तः मेदसोष्म- मार्गावरोधात् ॥ * ॥ असाध्यमाह । द्राक्षा पथ्या मातुलुङ्गं लशुनं लवणार्द्रकम् । ताम्बूलं मरिचं सर्पिः पथ्यानि स्वरभेदिनाम् ॥” अपथ्यानि यथा, -- “आमं कपित्थं वकुलं शालूकं जम्बवानि च । तिन्दुकानि कषायाणि वमिं स्वप्नं प्रजल्पनम् ॥ अनुपानञ्च यत्नेन स्वरभेदी विवर्ज्जयेत् ॥” इति वैद्यकपथ्यापथ्यविधिः ॥)

"https://sa.wiktionary.org/w/index.php?title=स्वरभेदः&oldid=180168" इत्यस्माद् प्रतिप्राप्तम्