सामग्री पर जाएँ

स्वरा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वरा, स्त्री, ब्रह्मणो ज्येष्ठपत्नी । गायत्रीसपत्नी । यथा, -- “चाक्षुषस्यान्तरे पूर्ब्बं मनोर्देवः पितामहः । सह्याद्रिशिखरे रम्ये यजनायोद्यतोऽभवत् ॥ स कृत्वा यज्ञसम्भारान् सर्व्वदेवगणैर्व्वृतः । युक्तो हरिहराभ्यां हि तद्गिरेः शिखरं ययौ ॥ भृग्वादयो मुनिगणा मुहूर्त्ते ब्रह्मदैवते । तस्य दीक्षाविधानाय समाजं चक्रुरादृताः ॥ अथ ज्येष्ठां स्त्ररां पत्नीमाह्वयाञ्चक्रुरीश्वराः । सा शनैराययौ तावत् भृगुर्व्विष्णुमुवाच ह ॥ * ॥ भृगुरुवाच । विष्णो स्वरा त्वयाहूता साप्यायाति नहि त्वरम् । मुहूर्त्तातिक्रमे चैव कार्य्यो दीक्षाविधिः कथम् ॥ विष्णुरुवाच । नायाति चेत् स्वरा शीघ्रं गायत्र्यत्र विधौ- यताम् । एषापि न भेवेदस्य भार्य्या किं पुण्यकर्म्मणि ॥ नारद उवाचः एवमेव हि रुद्रोऽपि विष्णुवाक्यममन्यत । तच्छ्रुत्वा स भृगुर्व्वाक्यं गायत्रीं ब्रह्मणस्तदा ॥ निवेश्य दक्षिणे भागे दीक्षाविधिमथाकरोत् ॥ यावद्दीक्षाविधिं तस्य विधेश्चक्रुर्मुनीश्वराः । तावदभ्याययौ तत्र स्वरा यज्ञस्थले नृप ॥ ततस्तां दीक्षितां दृष्ट्वा गायत्त्रीं ब्रह्मणा सह । सपत्नीर्षापरा क्रोधात् स्वधा वचनमब्रवीत् ॥ स्वरोवाच । अपूज्या यत्र पूज्यन्ते पूज्यानाञ्च व्यतिक्रमः । त्रीणि तत्र भविष्यन्ति दुर्भिक्षं मरणं भयम् ॥ मदासने कनिष्ठेयं भवद्भिः सन्निवेशिता । तस्मात् सर्व्वे जडीभूता नदीरूपा हि निश्चितम् ॥ इयञ्च दक्षिणे भागे ह्युपविष्टा मदासने । तस्माल्लोके सदादृश्या तनुरूपास्तु निम्नगा ॥ नारद उवाच । अतस्तत् शापमाकर्ण्य गायत्री कम्पिताधरा । समुत्थायाशपद्देवैर्वार्य्यमाणापि तां स्वराम् ॥ गायत्र्युवाच । तव भर्त्ता यथा ब्रह्मा ममाप्येष तथा खलु । वृथा शपसि यस्मान्मां भव त्वमपि निम्नगा ॥” इति पाद्मोत्तरखण्डे कार्त्तिकमाहात्म्ये १५६ अध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वरा¦ स्त्री ब्रह्मणः प्रथमपत्न्यां पद्मपु॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वरा f. N. of the chief wife of ब्रह्माL.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

(I)--a daughter of उत्तानपाद. Br. II. ३६. ९०; वा. ६२. ७७.
(II)--a daughter of Kardama and one of the wives of Atharva Angiras; son Gautama. Br. III. 1. १०२; वा. ६५. ९८. [page३-729+ ३०]
(III)--a daughter of क्रोधा. वा. ६९. २०५.
"https://sa.wiktionary.org/w/index.php?title=स्वरा&oldid=441006" इत्यस्माद् प्रतिप्राप्तम्