स्वरितः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वरितः, पुं, (स्वर + जातार्थे इतच् ।) स्वर- विशेषः । यथा, -- “उदात्तश्चानुदात्तश्च स्वरितोऽमी त्रयः स्वराः ॥” इति जटाधरः ॥ स्वरः संजातोऽत्रेति इतोऽस्य जाते इति इतः । यदाहुः । उश्चैरुच्चारणादुदात्तः नीचैरनुदात्तः समाहारः स्वरितः इति । छान्दसत्वात् प्रचित- स्यरो नोक्तः । तदुक्तम् । “उदात्तश्चानुदात्तश्च स्वरितश्च त्रयः स्वराः । चतुर्थः प्रचितो नोक्तो यतोऽसौ छान्दसः स्मृतः ॥” इति भरतः ॥ स्वरयुक्ते, त्रि ॥
