सामग्री पर जाएँ

स्वरोदय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वरोदयः, पुं, (स्वराणामुदयो यत्र । स्वरज्ञापक- ग्रन्थविशेषः । यथा, -- सूत उवाच । “हरेः श्रुत्वा हरो गौरीं देहस्थं ज्ञानमब्रवीत् । कुजो वह्नी रविः पृथ्वी सौरिरापः प्रकीर्त्तितः ॥ वायुसंस्थः स्थितो राहुर्दक्षरन्ध्रावभासकः । गुरुः शुक्रस्तथा सौम्यश्चन्द्रश्चैव चतुर्थकः ॥ वामनाड्यान्तु मध्यस्थान् कारयेदात्मनस्तथा । यदा चार इडायुक्तस्तदा कर्म्म समाचरेत् ॥ स्थानसेवां तथा ध्यानं बाणिज्यं राजदर्शनम् । अन्यानि शुभकर्म्माणि कारयेत प्रयत्नतः ॥ दक्षनाडीप्रवाहे तु शनिर्भौमश्च सैंहिकः । इनश्चैव तथाप्येव पापानामुदयो भवेत् ॥ शुभाशुभविवेको हि ज्ञायते तु स्वरोदयात् । देहमध्ये स्थिता नाड्यौ बहुरूपाः सुविस्तराः ॥ नाभेरधस्ताद् यः कन्दो अङ्कुरास्तत्र निर्गताः । द्वासप्ततिसहस्राणि नाभिमध्ये व्यवस्थिताः ॥ चक्रवच्च स्थितास्तास्तु सर्व्वाः प्राणहराः स्मृताः । तासां मध्ये त्रयः श्रेष्ठा वामदक्षिणमध्यमाः ॥ वामा सोमात्मिका प्रोक्ता दक्षिणा रविसन्निभा । मध्यमा च भवेदग्निः फलतां कालरूपिणी ॥ वामा ह्यमृतरूपा च जगदाप्यायने स्थिता । दक्षिणा रौद्रभागेन जगच्छोषयते सदा ॥ द्वयोर्ब्बाहे तु मृत्युः स्यात् सर्व्वकार्य्यविनाशिनी । निगमे च भवेद्वामा प्रवेशे दक्षिणा स्मृता ॥ कारयेत् क्रूरकर्म्माणि प्राणे पिङ्गलसंस्थिते । इडाचारे तथा सौम्यं चन्द्रसूर्य्यगतस्तथा ॥ यात्रायां सर्व्व कार्य्येषु विषापहरणे इडा । भोजने मैथुने युद्धे पिङ्गला सिद्धिदायिका ॥ उच्चाटमारणाद्येषु कर्म्मस्वेतेषु पिङ्गला । सर्व्वदुःखैर्व्विनिर्मक्तो लभते वाञ्छितं फलम् ॥ स्वरज्ञानं गिरो यस्य लक्ष्मीः करतले भवेत् । एतत्तु शरीरे यस्य सुखं तस्य सदा भवेत् ॥ प्रणवः सर्व्ववेदानां ब्रह्माण्डे भास्करो यथा । मर्त्यलोके तथा पूज्यः स्वरज्ञानी पुमानपि ॥ नाडीत्रयं विजानाति तत्त्वज्ञानं तथैव च । नैव तेन भवेत्तुल्यं लक्षकोटिरसायनम् ॥ एकाक्षरप्रदातारं नाडीभेदनिवेदकम् । पृथिव्यां नास्ति तद्द्रव्यं यद्दत्त्वा चानृणी भवेत् ॥ स्वरस्तत्त्वं तथा युद्धं देववश्यं स्त्रियस्तथा । गर्भाब्दरोगकालाख्यं नवप्रकरणान्वितम् ॥ एवं प्रवर्त्तितं लोके सिद्धिदं सिद्धयोगिभिः । आचन्द्रार्कं गृही जीयात् पठनात् सिद्धि- दायकम् ॥ सुस्थासने समासीनं निद्रामाहारमल्पकम् । चिन्तयेत् परमात्मानं यद्वदेत्तद्भविष्यति ॥” इति शिवगौरीसंवादे नवप्रकरणान्वितपवन- विजयं नाम स्वरोदयं ममाप्तम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वरोदय¦ पु॰ स्वरणामुदयो शुभादिज्ञापकतया यत्र। स्वरस्यश्वासविशेषस्य शुभाशुभत्वज्ञानसाधने तन्त्रशास्त्रभेदेचक्रशब्दे

२८

१० पृ॰ दृश्यम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वरोदय/ स्वरो mfn. followed by a vowel RPra1t.

स्वरोदय/ स्वरो mn. N. of a class of works.(= स्वर-शास्त्रSee. )

"https://sa.wiktionary.org/w/index.php?title=स्वरोदय&oldid=261896" इत्यस्माद् प्रतिप्राप्तम्