सामग्री पर जाएँ

स्वर्गो

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वर्गो, [न्] पुं, (स्वर्गोऽस्त्यस्य भोग्यत्वेनेति । स्वर्ग + इनिः ।) देवता । इति त्रिकाण्डशेषः ॥ (यथा, कुमारे । २ । ४५ । “भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते । खिलीभूते विमानानां तदापातभयात् पथि ॥”) स्वर्गगामिनि, त्रि । तल्लक्षणं यथा, -- “दया भूतेषु संवादो परलोकं प्रतिक्रिया । सत्यं परहिता चोक्तिर्व्वेदप्रामाण्यदर्शनम् ॥ गुरुदेवर्षिपूजा च केवलं साधुसङ्गमः । सत्क्रियाभ्यसनं मैत्री स्वर्गिणां लक्षणं विदुः ॥” इति गारुडे २२९ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=स्वर्गो&oldid=180217" इत्यस्माद् प्रतिप्राप्तम्