स्वर्णकारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वर्णकारः, पुं, (स्वर्णं स्वर्णालङ्कारं करोतीति । कृ + अण् ।) जातिविशेषः । सेकरा इति भाषा । तत्पर्य्यायः । नाडीन्धमः २ कलादः ३ रुक्मकारः ४ । इत्यमरः । २ । १० । ८ ॥ कणादः ५ । इति तट्टीकासारसुन्दरी ॥ हेमलः ६ । इति जटाधरः ॥ तस्योत्पत्तिर्यथा, -- “विश्वकर्म्मा च शूद्रायां वीर्य्याधानं चकार सः । ततो बभूवुः पुत्त्राश्च नवैते शिल्पकारिणः ॥ मालाकारः कर्म्मकारः शङ्खकारः कुबिन्दकः । कुम्भकारः कंसकारः षडेते शिल्पिनां वराः ॥ सूत्रधारश्चित्रकरः स्वर्णकारस्तथैव च । पतितास्ते ब्रह्मशापादयाज्या वर्णसङ्कराः ॥ स्वर्णकारः स्वर्णचौर्य्यात् ब्राह्मणानां द्विजोत्तम । बभूव सद्यः पतितो ब्रह्मशापेन कर्म्मणा ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे । १० । १९ -- २२ ॥ * ॥ तस्य कर्म्मविपाको यथा, -- “तैलचौरस्तैलकीटो मूर्द्ध्नि कीटस्त्रिजन्मकम् । ततो भवेत् स्वर्णकारो जन्मैकं दुष्टमानसः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे । ८५ । १२८ ॥
