सामग्री पर जाएँ

स्वर्णक्षीरी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वर्णक्षीरी, स्त्री, (स्वर्चवर्णा क्षीरी ।) ओषधि- विशेषः । तत्पर्य्यायः पटुपर्णी २ हैमवती ३ हिमावती ४ । इत्यमरः । २ । ४ । १३८ ॥ चत्वारि स्वर्णक्षीर्य्याम् । इयं पीतक्षीरा नाग- जिह्विकाकारा । “हेमवर्णं पयस्तस्या हिमवद्भूमिसम्भवा । सा नागजिह्विकाकारा तद्मूलं बाणिजौषध- मिति ॥” पटूनि निश्छिद्राणि पर्णानि अस्याः पटुपर्णी जातेरत इति ईप् । हिमवति जाता हैमवती ष्णः । स्वर्णमिव पीतत्वात् क्षीरमस्याः स्वर्ण- क्षीरी नदादिः । हिमयुक्तोत्पत्तिस्थानयोगात् हिमावती मोङ्मझपाद्वतुरिति वतुः नाम्न्यस्त्यर्थे इति दीर्घः । इति भरतः ॥ * ॥ अपि च । “स्वर्णक्षीरी स्वर्णदुग्धा स्वर्णाह्वारुक्मिणी तथा । सुवर्णा हेमदुग्धी च हेमक्षीरी च काञ्चनी ॥ स्वर्णक्षीरी हिमा तिक्ता कृमिपित्तकफापहा । मूत्रकृच्छ्राश्मरीशोफदाहज्वरहरा परा ॥” इति राजनिर्घण्टः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वर्णक्षीरी स्त्री।

स्वर्णक्षीरी

समानार्थक:पटुपर्णी,हैमवती,स्वर्णक्षीरी,हिमावती

2।4।138।1।3

पटुपर्णी हैमवती स्वर्णक्षीरी हिमावती। हयपुच्छी तु काम्बोजी माषपर्णी महासहा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वर्णक्षीरी¦ स्त्री स्वर्णमिव पीतत्वात् क्षीरं निर्य्यासो यस्याःगौरा॰ ङीष्। ओषधिभेदे सा च हिमालये जायते।
“हेमवर्णो रसस्तस्या हिमबद्भूमिसम्भवा। सा नाग-जिह्विकाकारा तन्मूलं वाणिजौषधम्। स्वर्ण्णक्षीरीहिमा तिक्ता कृमिपित्तकफापहा। मूत्रकृच्छाश्मरीशाथदाहस्वरहरा परा” राजनि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वर्णक्षीरी¦ f. (-री) A medicinal kind of moon-plant, said to be brought from the Hima4laya mountains. E. स्वर्ण gold, (like or yellow,) क्षीर milk, or milky sap, ङीष् fem. aff.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वर्णक्षीरी/ स्वर्ण--क्षीरी f. Cleome Felina L.

"https://sa.wiktionary.org/w/index.php?title=स्वर्णक्षीरी&oldid=262272" इत्यस्माद् प्रतिप्राप्तम्