सामग्री पर जाएँ

स्वर्णपुष्पः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वर्णपुष्पः, पुं, (स्वर्णवर्णं पुष्पमस्य ।) आरग्वधः । चम्पकः । इति राजनिर्घण्टः । चम्पकपुष्पै- र्व्विष्णुपूजाफलं यथा, -- “माघे चम्पकपुष्पेण योऽर्च्चयेत् कमलापतिम् । स गच्छेत् परमं धाम विमुक्तः सर्व्वपातकैः ॥ यावन्ति स्वर्णपुष्पाणि दीयन्ते चक्रपाणये । तावद्युगसहस्राणि स्थीयते विष्णुमन्दिरे ॥ मेरुतुल्यसुवर्णानि दत्त्वा भवति यत् फलम् । एकेन स्वर्णपुष्पेण दत्त्वा भवति तत् फलम् ॥ सुवर्णपुष्पं विप्रेन्द्र सर्व्वदा केशवप्रियम् । माघे मासि विशेषेण पवित्रं केशवार्च्चने ॥ सुवर्णकुसुमैर्दिव्यैर्येन नाराधितो हरिः । रत्रैर्हीनः सुवर्णाद्यैः स भवेज्जन्मजन्मनि ॥” इति पाद्मे क्रियायोगसारे ९ अध्यायः ॥ वावस्रवृक्षः । इति शब्दचन्द्रिका ॥

"https://sa.wiktionary.org/w/index.php?title=स्वर्णपुष्पः&oldid=180263" इत्यस्माद् प्रतिप्राप्तम्