स्वर्णमाक्षिक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वर्णमाक्षिकम्, क्ली, (स्वर्णवत् पीतं माक्षिकम् ।) स्वनामख्यात उपधातुः । तस्य नामानि गुणाश्च । “स्वर्णमाक्षिकमाख्यातं तापिञ्जं मधुमाक्षिकम् । तीक्ष्णं माक्षिकधातुश्च मधुधातुश्च स स्मृतः ॥ किञ्चित्सुवर्णसाहित्यात् स्वर्णमाक्षिकमीरि- तम् । उपधातुः सुवर्णस्य किञ्चित्स्वर्णगुणान्वितम् ॥ तथा च काञ्चनाभावे दीयते स्वर्णमाक्षिकम् । किन्तु तस्यानुकल्पत्वात् किञ्चिद्धीनगुणास्ततः ॥ न केवलं स्वर्णगुणा वर्त्तन्ते स्वर्णमाक्षिके । द्रव्यान्तरस्य संसर्गात् सन्त्यन्येऽपि गुणास्ततः ॥ * सुवर्णमाक्षिकं स्वादु तिक्तं वृष्यं रसायनम् । चक्षुष्यं वस्तिरुक्कण्ठपाण्डुमेहविषोदरम् । अर्शः शोथं विषं कण्डुं त्रिदोषमपि नाश- येत् ॥” * ॥ अशुद्धस्वर्णमाक्षिकस्य दोषमाह । “मन्दानलत्वं बलहानिमुग्रां विष्टम्भितां नेत्रगदान् सकुष्ठान् । मालां तथैव व्रणपूर्बिकाञ्च कुर्य्यादशुद्धं खलु माक्षिकञ्च ॥” * ॥ तद्दोषशान्त्यर्थं शोधनमाह । “माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च । मातुलुङ्गद्रवैर्व्वाथ जम्बीरस्य द्रवैः पचेत् ॥ चालयेल्लोहजे पात्रे यावत् पात्रं सुलोहितम् । भवेत्ततस्तु संशुद्धिं स्वर्णमाक्षिकमृच्छति ॥” * ॥ तन्मारणं थथा, -- “कुलत्थस्य कषायेण घृष्ट्वा तैलेन वा पुटेत् ।” तैलेनैवाजमूत्रेण म्रियते स्वर्णमाक्षिकम् ॥ इति भावप्रकाशः ॥ (तथास्य शोधनं यथा, -- “स्वर्णमाक्षिकचूर्णन्तु वस्ते बद्ध्वा विपाचयेत् । कालमाविषशालिञ्च क्वाथे दौलाविधानतः । तदधः पतितं शस्तमेवं शुध्यति माक्षिकम् ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वर्णमाक्षिक¦ न॰ स्वर्णमिव पीतं माक्षिकम्। स्वनामख्यातेउपधातुभेदे
“किञ्चित् सुवर्णसाहित्यात् स्वर्ण्णमाक्षिक-मीरितम्। उपधातुः सुवर्णस्य किञ्चित्स्वर्णगुणान्वितम्। तथा च काञ्चनाभावे दीयते स्वर्णमाक्षिकम्। किन्तुतस्यानुकल्पत्वात् किञ्चिद्धीनगुणास्ततः। न केवलं स्वर्ण-गुणा वर्त्तन्ते स्वर्णमाक्षिके। द्रव्यान्तरस्य संसर्गात् सन्त्य-न्येऽपि गुणास्ततः। सुवर्णमाक्षिकं स्वादु तिक्तं वृष्यंरसायनम्। चक्षुष्यं वस्तिरुक्कण्ठपाण्डुमेहविषोदरम्। अर्शःशोथं विषं कण्डुं त्रिदोषमपि नाशयेत्”। अशुद्ध-स्वर्णमाक्षिकस्य दोषमाह
“मन्दानलत्वं बलहानिमुग्रांविष्टम्भितां नेत्रगदान् सकुष्ठान्। मालां तथैब ब्रण-पूर्विकाञ्च कुर्य्यादशुद्धं खलु माक्षिकञ्च”। तद्दोषशान्त्यर्थंशोधनमाह
“माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च। मातुलुङ्गद्रवैर्वाथ जम्बीरस्य द्रवैः पचेत्। चालयेल्लोहजेपात्रे यावत् पात्रं सुलोहितम्। भवेत्ततस्तु संशुद्धंस्वर्णमाक्षिकमीरितम्”। तन्मारणं यथा
“कुलत्थस्य कषा-येण घृष्ट्वा तैलेन वा पुटेत्। तैलेनैवाजमूत्रेण म्रियतेस्वर्णमाक्षिकम्” भावप्र॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वर्णमाक्षिक¦ n. (-कं) A particular mineral substance.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वर्णमाक्षिक/ स्वर्ण--माक्षिक n. a kind of mineral substance Bhpr.
