स्वर्णुली
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वर्णुली, स्त्री, क्षुपविशेषः । तत्पर्य्यायः । हेम पुष्पी २ स्वर्णपुष्पा ३ अध्वजा ४ । अस्या गुणाः । कटुत्वम् शीतत्वम् । कषायत्वम् । व्रणापहत्वञ्च । इति राजनिर्घण्टः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वर्णुली¦ स्त्री स्वर्ण्णं तद्वर्णं लीयते पुष्पेऽत्र ली--आधारेक्विप् पृषो॰। स्वर्णुली हेमपुष्पी च स्वर्णपुष्पाध्वजा तथा। सा कषाया कटुः शीता व्रणहा परिकीर्त्तिता” राजनि॰उक्ते लताभेदे।