स्वलीनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वलीनः, पुं, (स्वस्मिन् लीनः ।) दानवविशेषः । यथा, -- “तामायान्तीन्तु रोधाय स्वलीनो नाम दानवः । पार्व्वतं रूपमास्थाग्र वर्षाणान्तु शतैर्द्विजाः ॥ ततो भगीरथो राजाराधयामास कौशिकम् ॥ स तुष्टः प्रददौ नागं वाहनं तं मगीरथः । तमारुह्यागमत्तत्र यत्र रुद्धा भगीरथी ॥ तेन नागेन तं दैत्यं संविदार्य्य न सङ्गतम् । शतधा तां समाधाय मूर्द्ध्वन्यैरावणो गजः ॥ महीतलं समापेदे स यावन्नागसाह्वयम् । तस्माद्व्याघटनाद्विप्रा अभून्नागपुरं वरम् ॥” इति वह्निपुराणे गङ्गावतरणनामाध्यायः ॥
