सामग्री पर जाएँ

स्ववामिनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्ववामिनी, स्त्री, (स्वस्मिन् पित्रालये वमतीति । वम + णिनिः । ङीप् ।) ऊढा अनढा वा पितृ- गृहस्थिता । तत्पर्य्यायः । चिरिण्टो २ । इत्य- मरः ॥ “द्वेऊढायामनूढायां वा पितृगृहस्थिता- याम् । पितृकुलस्नेहात् चिरं एटति गच्छति चिरिण्टी । इट गतौ अन् मनीषादिः । ‘स्ववासिन्यां चिरिण्टी स्यात् द्वितीयवयसि स्त्रियाम् ॥’ इति रुद्रः ॥ चिरण्टीत्येके । स्वेषु ज्ञातिषु वसति स्ववासिनी ग्रहादित्वाण्णिन् । सुखेन वसति सुवासिनीति द्राविडाः ।” इत्यमरटीकायां भरतः ॥

"https://sa.wiktionary.org/w/index.php?title=स्ववामिनी&oldid=180316" इत्यस्माद् प्रतिप्राप्तम्