सामग्री पर जाएँ

स्वस्तिकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वस्तिकः, पुं, क्ली, (स्वास्त क्षेमं कायति कथय- तीति । कै + कः ।) आढ्यानां गृहविशेषः । इत्यमरः । २ । २ । १० ॥ तस्य लक्षणं यथा, -- “स्वस्तिकं प्राङ्मुखं यत् स्यादविन्द्यानुगतं भवेत् । तत्पार्श्वानुमतौ चान्यौ तत्पर्य्यन्तगतोऽपरः ॥” इति भरतधृतमाञ्झः ॥ अन्यद्वास्तुशब्दे द्रष्टव्यम् ॥ सितावरशाकः । इति राजनिर्घण्टः ॥ (“शितिवारः शितिवरः स्मस्तिकः जुनिषणक्षः । श्रावारकः सूचिपत्रः पर्णकः कुक्कुटः शिखा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) योगाङ्गासनविशेषः । तस्य त्वचणं आमनशब्दे द्रष्टव्यम् ॥

स्वस्तिकः, पुं, (स्वस्ति क्षेमं खायतीति । कै + कः) मङ्गलद्रव्यम् । तत्तु तण्डुलचूर्णनिर्म्मितत्रिकोणा- काराधिवासद्रव्यम् । चतुष्पयः । गृहभेदः । इति मेदिनी ॥ पिष्टकविकारः । रततालिकः । इति विश्वः ॥ जिनानां चतुर्व्विंशतिचिह्नान्त- र्गतचिह्नविशेषः । यथा, -- “वृषो गजोऽश्वः प्लवगः क्रौञ्चोऽब्जं स्वस्तिकः शशी । मकरः श्रीवत्सः खङ्गी महिषा सूकरस्तथा ॥ श्येनो वज्रं मृगच्छागौ नद्यावर्त्तो घटोऽपि च । कूर्म्मो नीलोत्पलं शङ्खः फणी सिंहोऽर्हतां ध्वजाः ॥” इति हेमचन्द्रः ॥ रसोनकः । इति त्रिकाण्डशेषः । (सर्पफणा- स्थितनीलरेखाविशेषः । यथा, रामायणे । १ । १९५ । “शिरोभिः पृथुभिनीगा व्यक्तस्वस्तिकलक्षणैः । वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वस्तिकः [svastikḥ], [स्वस्ति शुभाय हितं क]

A kind of mystical mark () on persons or things denoting good luck.

A lucky object.

The meeting of four roads.

The crossing of the arms, making a sign like the cross; स्तनविनिहितहस्तस्वस्तिकाभिर्वधूभिः Māl.4.1; Śi.1.43.

A palace of particular form.

A particular symbol made with ground rice and shaped like a triangle.

A kind of cake.

A voluptuary, libertine.

Garlic.

A kind of bard (who utters words of eulogy); पुरःसरैः स्वस्तिकसूतमागधैः Rām.2.16.46 (com. स्वस्तिका जयजयेति वादिनो बन्दिनः).

कः, कम् A mansion or temple of a particular form with a terrace in front.

A particular mode of sitting practised by Yogins (in which the toes are placed in the inner hollow of the knees).

A seat (पीठ) prepared for a deity; Mb.12.4.7. (com. स्वस्तिकान् सर्वतोभद्राद्यङ्कितानि देवतापीठानि). -Comp. -कर्ण a. marked on the ear with the figure स्वस्तिक. -पाणि a.

crossing hands like स्वस्तिकं.

holding auspicious things in hands; श्रुत्वा चेदं वचनं पार्थिवस्य सर्वं पुरं स्वस्तिकपाणिभूतम् Mb.4.68.27 (com. स्वस्तिकं मङ्गलारार्तिकादि दधिदूर्वादि च पाणौ यस्य तत् स्वस्तिकपाणिभूतम्).

"https://sa.wiktionary.org/w/index.php?title=स्वस्तिकः&oldid=263223" इत्यस्माद् प्रतिप्राप्तम्