स्वस्तिबाचन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वस्तिबाचनम्, क्ली, (स्वस्ति मङ्गलस्य वाचनम् ।) माङ्गल्यकर्म्मारम्भकालीनवक्ष्यमाणमन्त्रोच्चारण- पूर्ब्बकतण्डुलविकिरणम् । तन्मन्त्रो यथा । अमुक कर्म्मणि पुण्याहं भवन्तो ब्रुबन्तु । इत्युक्ते पुण्याहमिति ब्राह्मणैस्त्रिरुक्ते अमुककर्म्मणि ऋद्धिं भवन्तो ब्रुवन्तु । ततः ऋद्ध्यतामिति ब्राह्मणास्त्रिब्रूयुः । एवं स्वस्ति भवन्तो ब्रुवन्तु । इत्युक्ते स्वस्ति इति ब्राह्मणास्त्रिर्ब्रूयुः । ततः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो वृहस्पतिर्द्दधातु ॥ इति पठित्वा तण्डुलान् विकिरेत् ॥ * ॥ प्रमाणं यथा, व्यासः । “संपूज्य गन्धपुष्पाद्यैर्ब्राह्मणान् स्वस्ति वाचयेत् । धर्म्मे कर्म्मणि माङ्गल्ये संग्रामाद्भुतदर्शने ॥” धर्म्मे कर्म्मणि इति सप्तमीनिर्द्देशात् अमुक- कर्म्मणि स्वस्ति भवन्तो ब्रुवन्तु इति ब्रूयात् । यमः । “पुण्याहवाचनं दैवे ब्राह्मणस्य विधीयते । एतदेव निरोङ्कारं कुर्य्यात् क्षत्तियवैश्ययोः ॥ सोङ्कारं ब्राह्मणे ब्रूयात् निरोङ्कारं महीपतौ । उपांशु च तथा वैश्ये शूद्रे स्वस्ति प्रयोजयेत् ॥” इत्युद्वाहतत्त्वम् ॥ * ॥ अपि च । नन्द उवाच । “अलक्षितोऽस्त्रिन्रहमि मामकैरपि गोव्रजे । कुरु द्विजातिसंम्कारं स्वस्तिवाचनपूर्ब्बकम् ॥” इति श्रीभागवते १० स्कन्धे ८ अध्यायः ॥
