सामग्री पर जाएँ

स्वादुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वादुः, पुं, (स्वद आस्वादने + “कृवापाजीति ।” उणा ०१ । १ । इति उण् ।) मधुररसः । यथा, -- “मधुरस्तु रसज्येष्ठो गुल्यः स्वादुर्म्मधूलकः ।” इति हेमचन्द्रः ॥ गुडः । यथा, -- “गण्डोलं स्यात् गुडः स्वादुः ।” इति त्रिकाण्डशेषः । जावकीषधिः । यथा, -- “ह्रस्वाङ्गो मधुरः स्वादुः प्राणकश्चिर- जीवकः ।” इति जटाधरः ॥ सुगन्धिद्रव्यभेदः । तत्पर्य्यायः । अगुरुसारः २ सुधूम्पः ३ गन्धधूमजः ४ । अस्य गुणाः । कटु- त्वम् । कषायत्वम् । उष्णत्वम् । सधूमामोदत्वम् । वातनाशित्वञ्च । इति राजनिर्घण्टः ॥

स्वादुः, स्त्री, (स्वद् + उण् ।) द्राक्षा । इति स्वाद्वीशब्दटीकायां भरतः । २ । ४ । १०७ ॥

स्वादुः, त्रि, (स्वद् + उण् ।) इष्टः । मनोज्ञः । मधुरः । मिष्टः । इत्यमरमेदिन्यौ । ३ । ३९४ ॥ (तदुक्तम् । यथा, -- “स्वाद्वन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवा स्तेषामिन्द्रियनिग्रहो यदि भवेद् पङ्गुस्तरेत् सागरम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=स्वादुः&oldid=180365" इत्यस्माद् प्रतिप्राप्तम्