स्वादुकण्टकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वादुकण्टकः, पुं, (स्वादूनि कण्टकानि यस्य ।) विकङ्कतवृक्षः । गोक्षुरकः । इत्यमरः । २ । ४ । ३७ । २ । ४ । ९९ ॥ विकण्टकवृक्षः । इति राजनिर्घण्टः ॥ (विकङ्कतार्थे पर्व्यायो यथा, “विकङ्कतो स्रुवावृक्षो ग्रन्थिलः स्वादुकण्टकः । स एव यज्ञवृक्षश्च कण्टकी व्याघ्रपादपि ॥” गोक्षुरकार्थे पर्य्यायो यथा, -- “गोक्षुरः क्षुरकोऽपि स्यात् त्रिकण्टः स्वादु- कण्टकः । गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि ॥ पलङ्कषा श्वदंष्ट्रा च तथा स्यादिक्षुगन्धिका ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
