स्वायम्भुव
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वायम्भुवः, पुं, (स्वयम्भुवोऽपत्यमिति । स्वयम्भू + अण् । संज्ञापूर्ब्बकस्य विधेरनित्यत्वात् न गुणः ।) प्रथममनुः । स च सृष्टिवृद्धये ब्रह्मणो दक्षि- णाङ्गाज्जातः । वामाङ्गात् शतरूपा स्त्री तस्य महिषी आसीत् । अस्मिन्मन्वन्तरे यज्ञोऽवतारः स एव इन्द्रः । यमादयो देवाः मरीच्यादिसप्त- र्षयः । स्वायम्भुवो मनुः । प्रियव्रतोत्तानपादौ मनुपुत्त्रौ । आकूतिः देवहूतिः प्रसूतिः कन्याः । इति श्रीभागवतमतम् ॥ * ॥ अपि च । “यामा नाम पुरा देवाः आसन् स्वायम्भुवे- ऽन्तरे । सप्तैव ऋषयः पूर्ब्बं ये मरीच्यादयः स्मृताः ॥ अग्निध्रश्चाग्निबाहुश्च रिभः सवन एव च । ज्योतीष्मान् द्युतिमान् हव्यो मेधा मेधातिषि- र्व्वसुः ॥ स्वायम्भुवस्यास्य मनोर्द्दशैते वंशवर्द्धनाः । प्रतिस्वर्मममी कृत्वा जम्मुस्ते परमं पदम् ॥ एतत् स्वायम्भुवं प्रोक्तं स्वारोचिषमतः परम् ॥” इति मात्स्वे । ९ । ३ -- ६ ॥ * ॥ अपरञ्च । “ततो ब्रह्मात्मसंभूतं पूर्ब्बं स्वायम्भुवं प्रभुः । आत्मनः सदृशं चक्रे प्रजापाल्ये मनुं तदा ॥ शतरूपाञ्च तां नारीं तपोनिर्धूतकल्मषाम् । स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे प्रभुः ॥ तस्माच्च पुरुषात् पुत्त्रौ शतरूपा व्यजायत । प्रियव्रतोत्तानपादौ प्रख्यातावात्मकर्म्मभिः ॥ कन्ये द्वे च तथाकूतिः प्रसूतिश्च ततः पिता । ददौ प्रसूतिं दक्षाय तथाकूतिं रुचेः पुरा ॥ प्रजापतिः स जगृहे तयोर्यज्ञः सदक्षिणः । पुत्त्रो जज्ञे महाभानः दम्पत्योर्मिथुनं ततः ॥ यज्ञस्य दक्षिणायास्तु पुत्त्रो द्वादश जज्ञिरे ॥ यामा इति समाख्याता देवाः स्वायम्भुवेऽन्तरे तस्य पुत्त्रास्तु यज्ञस्य दक्षिणायां सुभास्वराः ॥ प्रसूत्याञ्च तथा दक्षश्चतस्रो विंशतिस्तथा । ससर्ज कन्यास्तासान्तु सम्यक् नामानि मे शृणु ॥” इति मार्कण्डेयपुराणे दुःसहशासननामाध्यायः (तत्सम्बन्धिनि, त्रि । यथा, हरिवंशे । ७ । ९ । “यामा नाम तथा देवा आसन् सायम्भुवे- ऽन्तरे ॥ ब्रह्मसम्बन्धिनि च त्रि । यथा, कुमारे । २ । १ । “तस्मिन् विप्रकृताः काले तारकेण दिवौकसः । तुरासाह पुरोधाय धाम स्वायम्भुवं ययुः ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वायम्भुव¦ पु॰ स्वयंभुवोऽपत्यम्, तस्येदम् वा अण् ओरो-दिति वक्तव्ये ओर्गुण इत्युक्त्या संज्ञापूर्वकविधेरनित्य-त्वज्ञापनान्न गुणः उवड्।
१ स्वयम्भूपुत्रे मनौ
२ स्वयम्भू-सम्बन्धिनि त्रि॰
“धाम स्वायम्भुवं ययुः” कुमारः। स्त्रियां ङीप्। सा च
३ ब्राह्म्याम्।
“भार्गवी नार-दोया च वार्हस्पत्याङ्गिरस्यपि। स्वायम्भुवस्य शास्त्रस्यचतस्रः संहिता मताः” इति तदुक्तधर्मशास्त्रसंहिता-चतुष्टयम्। तदुत्पत्त्यादिकं यथा
“ततः कालेन महता तस्याः पुत्रोऽभवन् मनुः। स्वाय-म्भुव इति ख्यातः स विराडिति नः श्रुतम्। तद्रूपगुण-सामान्यादविपूरुष उच्यते। वैराजा यत्र ते जातावहवः संशितव्रताः। स्वायम्भुवान् महाभागाः सप्त सप्ततथापरे। स्वारोचिषाद्या ते सर्वे ब्रह्मतुल्यस्वरूपिणः। औत्तमिप्रमुखास्तद्वद् येषान्त्वं सप्तमोऽधुना” मत्स्यपु॰
४ अ॰।
“ऋषीस्तेषां प्रवक्ष्यामि पुत्रान् देवगणांस्तथा। मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः। पुलस्त्यश्च वशि-ष्ठश्च सप्तैते ब्रह्मणः सुताः। उत्तरस्यां दिशि तथाराजन्! सप्तर्षयः स्थिताः। यामा नाम तथा देवास्त्वासन्स्वायम्भुवेऽन्तरे। आग्नीध्रश्चग्निबाहुश्च मेधा मेधातिथि-र्वसुः। ज्योतिष्मान् द्युतिमान् हव्यः स नः पुत्र एव चमनोः स्वा म्भुवस्यैते दश पुत्रा महौजसः। एतत्तेप्रथमं राजन्! मन्वन्तरमुदाहृतम्” हरिवं॰
७ अ॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वायम्भुव¦ mfn. (-वः-वी-वं)
1. Relating to SWAYAMBHU
4.
2. Derived from the self-born. m. (-वः) An epithet of the first MANU, the son of SWAYAMBHU
4. E. स्वयम्भू, and अण् aff.; also स्वायम्भू |
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वायम्भुव mfn. (fr. स्वयम्भू)relating to स्वयम्-भूor the Self-existent , derived from the Self-existent( i.e. ब्रह्मन्) MBh. Ka1v. etc.
स्वायम्भुव mfn. relating to or derived from मनुस्वायम्भुवMBh. Hariv. Pur.
स्वायम्भुव m. " son of स्वयम्-भू" , N. of various sages ( esp. of the first मनु, of मरीचि, अत्रि, नारदetc. ) ib.
स्वायम्भुव n. N. of a शैवतन्त्र.
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a name of नारद. भा. I. 6. 3.
(II)--(see Manu) फलकम्:F1: भा. III. १२. ५३-4; वा. ६१. ११९; १०९. 5.फलकम्:/F the Devas are यामस्, the sages are मरीचि and six others besides his ten sons; all engaged in Pratisarga and attained the final bliss; फलकम्:F2: M. 9. 3-6.फलकम्:/F पृथु milked the cow-earth with the help of स्वायम्भुव Manu in his hand; to his family belonged a प्रजापति An3ga; फलकम्:F3: Ib. १०. 3, १५.फलकम्:/F came out of the first face and of white colour; फलकम्:F4: वा. २६. ३२; ६१. ११९; १०९. 5.फलकम्:/F married शतरूपा. फलकम्:F5: Br. II. 9. ३६; वा. १०. ११-12.फलकम्:/F [page३-735+ ३१]
