स्वार्थः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वार्थः, पुं, (स्वस्य अर्थः ।) स्वीयाभिधेयः । स्वकीयधनम् । स्वीयवस्तु । आत्मप्रयोजनम् । (यथा, माघे । २ । ६५ । “यजतां पाण्डवः स्वर्गमवत्विन्द्रस्तपत्विनः । वयं हनाम द्विषतः सर्व्वः स्वार्थं समीहते ॥”) स्वनिवृत्तिः । इति अर्थशब्दार्थदर्शनात् ॥ लिङ्गार्थ- विशेषः । यथा, -- “स्वार्थो द्रव्यञ्च लिङ्गञ्च संख्या कर्म्मादिरेव च । अमी पञ्चैव लिङ्गार्थास्त्रयः केषाञ्चिदग्रिमाः ॥ स्वार्थो विशेषणम् । द्रव्यं विशेष्यम् । लिङ्गं पुंस्त्वादि । संख्या एकत्वादिः । कर्म्मादिर्ढादिः ।” इति मुग्धबोधटीकायां दुर्गादासः ॥
