स्वीकारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वीकारः, पुं, (अस्वस्य स्वस्य कारः करणम् । स्व + कृ + घञ् । अभूततद्भावे च्वीः) अङ्गी- कारः । यथा, -- “सम्बिदागूः प्रतिज्ञा च सन्धावाचश्च सङ्गरः । अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ॥ संश्रवोङ्कारनियमोररीकाराश्रवा अपि ॥” इति जटाधरः ॥ प्रतिज्ञानम् । इति शब्दरत्नावली ॥ अस्वं स्वं कुर्व्वन् व्यापारः । यथा । न च स्वीकारात् स्वत्वं स्वीकत्तुरेव दातृत्वापत्तेः । किञ्च । मनसा पात्र- मुद्दिश्य इत्यादि शास्त्रे स्वीकारात् प्रागेव दान- पदं दृष्टम् । ननु ग्रहणं स्वीकारोऽभूततद्भावे च्विप्रत्ययात् अस्वं स्वं कुर्व्वन् व्यापारः भवति कथं ततः प्रागेव स्वत्वम् । उच्यते उतपन्नमपि स्वत्वं सम्प्रदानव्यापारेण ममेदमिति ज्ञानेन व्यवहारार्हं क्रियत इति स्वीकारशब्दार्थः । इति दायभागः ॥
