स्वीयः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वीयः, त्रि, (स्वस्यायमिति । स्व + छः ।) स्वकीयः । आत्मीयः । यथा, स्कान्दे शिववाक्यम् । “शूद्रः कर्म्माणि यो नित्यं स्वीयानि कुरुते प्रिये । तस्याहमर्च्चां गृह्णामि चन्द्रखण्डविभूषिते ! ॥” इति तिथ्यादितत्त्वम् ॥
