स्वीया
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वीया, स्त्री, (स्वस्येयमिति । स्व + छः । टाप् ।) नायिकाभेदः । तस्या लक्षणम् । स्वामिन्ये- वानुरक्ता पतिव्रता इति यावत् । अस्याश्चेष्टा स्वामिशुश्रूषा शीलरक्षा सरलता क्षमा च । सा च त्रिविधा । मुग्धा मध्या प्रगल्भा च । एताः सर्व्वा नायिका अवस्थाभेदेन प्रत्येके नवविधा । प्रोषितभर्त्तृका खण्डिता कलहा- न्तरिता विप्रलब्धा उत्कण्ठिता वासकसज्जा स्वाधीनपतिका अभिसारिका प्रवत्स्यत्पतिका च । एताः प्रत्येके उत्तममध्यमाधमभेदेन अष्टाविंशत्युत्तरशतनायिका भवन्ति । एतासां दिव्यादिव्यगणनाभेदेन चतुरशीत्युत्तरशतत्रय- प्रकारा भवन्ति । तत्र प्रमाणं यथा । नायिका त्रिविधा । स्वीया परकीया सामान्यवनिता चेति । तत्र स्वामिन्येवानुरक्ता स्वीया । न च परिणीतायां परगामिन्यामतिव्याप्तिस्तत्र पति- व्रताया एव लक्ष्यत्वात् । तस्या परगामितया परकीयत्वमेव समायाति । अस्याश्चेष्टा । भर्त्तुः शुश्रूषा । शीलसंरक्षणम् । आर्ज्जवम् । क्षमा च । यथा, -- “गतागतकुतूहलं नयनयोरपाङ्गावधि स्मितं कुलनतभ्रुवामधर एव विश्राम्यति । वचः प्रियतमश्रुतेरतिथिरेव कोपक्रमः कदाचिदपि चेत्तदा मनसि केवलं मज्जति ॥” अपि च । “सञ्चारो रतिमन्दिरावधि सखीकर्णावधि व्याहृतं चेतः कान्तसमीहितावधि पदन्यासावधि प्रेक्षितम् । हास्यञ्चाधरपल्लवावधि महामानोऽपि मौना- वधि सर्व्वं स्वावधि नावधिः कुलभुवां प्रेम्णः परं केवलम् ॥” अपि च । “पदन्यासो गेहाद्वहिरांहफणारोहणसमः स्वगेहादन्यत् यद्भवनमपरद्वीपतुलितम् । वचो लोकालभ्यं कृपणधनतुल्यं मृगदृशः पुमानन्यः कान्ताद्विधुरिव चतुर्थीसमुदितः ॥” स्वीयापि त्रिविधा । मुग्धा मध्या प्रगल्भा च । तत्राङ्कुरितयौवना मुग्धा । सा च ज्ञातयौवना अज्ञातयौवना च । सैव क्रमशो लज्जाभयपरा- धीनरतिर्नवोढा । सैव क्रमशो जातप्रश्रया विश्रब्धनवोढा । अस्याश्चेष्टा । क्रिया मनोहरा दृक्पातं कुरुषे न वा परिजने कोपप्रकाश- च्छलात् । इत्थं केतकगर्भगौरि दयिते कोपस्य संगोपनं किं स्यादेव न चेत् पुनः सहचरो कुर्व्वीत साचि स्मितम् ॥” * ॥ प्रगल्भा अधीरा यथा, -- “प्रतिफलमवलोक्य स्वीयमिदोः कलायां हरशिरसि परस्यावासमाशङ्कमाना । गिरिशमचलकन्या तर्ज्जयामास कम्प- प्रचलवलयवेल्लत्कान्तिभाजा करेण ॥” * ॥ प्रगल्भा धीराधीरा यथा, -- “तल्पोपान्तमुप्रेयुषि प्रियतमे साचीकृतग्रीवया काकुव्याकुलवाचि साचिहसितस्फूर्ज्जत्कपोल- श्रिया । हस्तन्यस्तकरे पुनर्म्मृगदृशा लाक्षारसाक्षलित- प्रौष्ठीपृष्ठमयूखमांसलरुचो विस्फारिता दृष्टयः ॥” * ॥ एते धीरादिषड्भेदा द्विविधा । धीरा ज्येष्ठा कनिष्ठा च । अधौरा ज्येष्ठा कनिष्ठा च धीराधीरा ज्येष्ठा कनिष्ठा च इत्यपि क्वचित् पाठः एते धीरादित्रयो मेदात् द्विविधा भवन्ति । ज्येष्ठा कनिष्ठा च । परिणीतत्वे सति भर्त्तरधिकस्नेहा ज्येष्ठा । परिणीतत्वे सति भर्त्तुर्न्यूनस्नेहा कनिष्ठा । अधिकस्नेहासु न्यूनस्नेहासु मामान्यवनितादिषु नातिव्याप्तिः । परिणीतत्वपदेन व्यावर्त्तनात् । नापि परकौ- यायामतिव्याप्तिः । भर्त्तृपदेन तद्व्यावृत्तेः । धीरा ज्येष्ठा कनिष्ठा च यथा, -- “एकस्मिन् शयने सरोरुहदृशोर्विज्ञाय निद्रां तयो- रेकां पल्लवितावगुण्ठनपटामुत्कन्धरो दृष्टवान् अन्यस्याः सविधं समेत्य निभृतं व्यालोलहस्ता- ङ्गुलि- व्यापारैर्वसनाञ्चलञ्चपलयन् स्वापच्युतिं क्तृप्त वान् ॥” ॥ * ॥ अधीरा ज्येष्ठा कनिष्ठा यथा, -- “अन्तःकोपकषायिते प्रियतमे पश्यन् घने कानने पुष्पस्यावचयाय नम्रवदनामेकां समायोजयन् । अर्द्धोन्मीलितलोचनाञ्चलचमत्काराभिरामा- ननां स्मेरार्द्राधरपल्लवां नवबधृमन्यां समालिङ्गति ॥” धीराधीरा ज्येष्ठा कनिष्ठा च यथा, -- “धैर्य्याधैर्य्यपरिग्रहग्रहिलयोरेणीदृशोः प्रीतये रत्नद्वन्द्वमनन्तकान्तिरुचिरं मुष्टिद्वये न्यस्तवान् । एकस्याः कलयन् करे प्रथमतो रत्नं परस्याः प्रियो हस्ताहस्तिमियात् स्पृशन् कुचतटीमानन्दमा- विन्दति ॥” इति रसमञ्जरी ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वीया f. " one's own wife " , a wife solely attached to her husband Sa1h.
