सामग्री पर जाएँ

स्वेदज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वेदजः, त्रि, (स्वेदात् जायते इति । जन + डः ।) स्वेदाज्जातजन्तुः । क्रमिदंशादिः । इत्यमरः । ३ । १ । ५१ ॥ तद्गणा यथा, -- “संस्वेदजविकाराश्च यथा येभ्यो भवन्ति च । मानुषस्वेदमलजा मक्षिकाद्या भवन्ति च ॥ नवमेघप्रसिक्तायां पिपालिकगणादयः । सस्वेदजापि विज्ञेया वृक्षगोपशुजन्तवः ॥ समिद्भ्या माषमुद्गेभ्यः फलेभ्यश्चैव जन्तवः । जायन्त क्रिमया विप्राः काष्टभ्यो घुणकादयः ॥ तथा शुक्रविकारेभ्यः पूतिकाः प्रभवन्ति च । संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात् ॥ गोभ्यो हि महिषेभ्यश्च मानुषेभ्यश्च जन्तवः । मत्स्यादिध्यश्च विविधा अन्तःकुक्षौ विशषतः ॥ अथान्यानि च सूक्ष्माणि सूक्ष्मयूकास्तथैव च । गोभ्याऽश्वेभ्यस्तथा चैव अष्टापदकिनीनकाः ॥ मक्षिकाणां विकाराश्च उत्सृष्टोदककर्दमैः । शरावति विकाराश्च करीषेभ्यो भवन्ति हि ॥ एवमादिरसख्यातो गणः संस्वेदजो मया । समासान्निहितो ह्येष प्राक्कर्म्मवशजः स्मृतः ॥” इति वह्निपुराणे काश्यपीयवंशनामाध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वेदज वि।

कृमिदंशाद्याः

समानार्थक:स्वेदज

3।1।51।1।1

स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः। उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वेदज¦ पु॰ स्वेदाज्जायते जन--ड।

१ स्वेदजाते दंशादिजन्तौअमरः

२ स्वेदजातमात्रे त्रि॰।
“संस्वेदजविकाराश्च यथा येभ्यो भवन्ति च। मानुषस्वेद-मलजा मक्षिकाद्या भवन्ति च। नवमेघप्रसिक्तायांपिपीलिकगणादयः। संस्वेदजास्तु विज्ञेया वृक्षगोपशु-जन्तवः। समिद्भ्या माषमुद्गेभ्यः फलेभ्यश्चैव जन्तवः। जायन्ते क्रिमयो विप्राः! काष्ठेभ्यो घुणकादयः। तथाशुक्रविकारेभ्यः पूतिकाः प्रभवन्ति च। संस्वेदजाश्चजायन्ते वृश्चिकाः शुष्कगोमयात्। गाभ्यो हि महिषे-भ्यश्च मानुषेभ्यश्च जन्तवः। मत्स्यादिम्यश्च विविधाअन्तःकुक्षौ विशेषतः। अथान्यानि च सूक्ष्माणि सूक्ष्म-यूकास्तथैव च। गोभ्योऽश्वेभ्यस्तथा चैव अष्टास्पदकिनी-नकाः। माक्षिकाणां विकाराश्च उत्सृष्टोदककर्दमैः। शरावति विकाराश्च करीषेभ्यो भवन्ति हि। एवमादि-रसंख्यातो गणः संस्वेदजो मया। सर्वासान्निहितोह्येष प्राक्कर्मवशजः स्मृतः” वह्निपु॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वेदज¦ mfn. (-जः-जा-जं) Engendered by heat and damp, as insects and worms. E. स्वेद sweat or vapour, and ज produced. [Page825-b+ 57]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वेदज/ स्वेद--ज mfn. sweat-produced , envapour or steam (said of insects and vermin) AitUp. Mn. MBh. etc.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

--ants, worms, etc. Br. III. 7. ४२४-6; वा. ३०. १०१, २२७.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

SVEDAJA : An asura (demon). (See under Raktaja).

_______________________________
*5th word in right half of page 779 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=स्वेदज&oldid=441070" इत्यस्माद् प्रतिप्राप्तम्