सामग्री पर जाएँ

स्वेदजः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वेदजः, त्रि, (स्वेदात् जायते इति । जन + डः ।) स्वेदाज्जातजन्तुः । क्रमिदंशादिः । इत्यमरः । ३ । १ । ५१ ॥ तद्गणा यथा, -- “संस्वेदजविकाराश्च यथा येभ्यो भवन्ति च । मानुषस्वेदमलजा मक्षिकाद्या भवन्ति च ॥ नवमेघप्रसिक्तायां पिपालिकगणादयः । सस्वेदजापि विज्ञेया वृक्षगोपशुजन्तवः ॥ समिद्भ्या माषमुद्गेभ्यः फलेभ्यश्चैव जन्तवः । जायन्त क्रिमया विप्राः काष्टभ्यो घुणकादयः ॥ तथा शुक्रविकारेभ्यः पूतिकाः प्रभवन्ति च । संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात् ॥ गोभ्यो हि महिषेभ्यश्च मानुषेभ्यश्च जन्तवः । मत्स्यादिध्यश्च विविधा अन्तःकुक्षौ विशषतः ॥ अथान्यानि च सूक्ष्माणि सूक्ष्मयूकास्तथैव च । गोभ्याऽश्वेभ्यस्तथा चैव अष्टापदकिनीनकाः ॥ मक्षिकाणां विकाराश्च उत्सृष्टोदककर्दमैः । शरावति विकाराश्च करीषेभ्यो भवन्ति हि ॥ एवमादिरसख्यातो गणः संस्वेदजो मया । समासान्निहितो ह्येष प्राक्कर्म्मवशजः स्मृतः ॥” इति वह्निपुराणे काश्यपीयवंशनामाध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=स्वेदजः&oldid=180466" इत्यस्माद् प्रतिप्राप्तम्