सामग्री पर जाएँ

स्वेदनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वेदनम्, क्ली, (स्विद् + ल्युट् ।) स्वेदः । इति मेदिनी ॥ स्वेदनयन्त्रं यथा, -- “निबद्धमौषधं सूतं भूर्ज्जे तत्त्रिगुणाम्बरे । रसपोटलिकां काष्ठे दृढं बद्ध्वा गुणेन हि ॥ सन्धानपूर्णं कुम्भान्तः स्वावलम्बनसंस्थितम् । अधस्ताज्ज्वालयेद्वह्निं तत्तदुक्तक्रमेण हि । दोलायन्त्रमिदं प्रोक्तं स्वेदनाख्यं तदेव हि ॥” सन्धानं काञ्जिकादि । “साम्बुस्यालीमुखे बद्धे वस्त्रे स्वेद्यं निधाय च । पिधाय पच्यते यत्र तद्यन्त्रं स्वेदनं स्मृतम् ॥” इति भावप्रकाशः ॥ (स्वेदयतीति । स्विद् + णिच् + ल्युः । स्वेदके, त्रि । यथा, सुश्रुते । ३ । ४ । “स्वेदनो दुर्गन्धः पीतशिथिलाङ्गस्ताम्रनख- नयनतालुजिह्वोष्ठपाणिपादतल इत्यादि ॥”

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वेदनम् [svēdanam], [स्विद्-णिच्-ल्युट्]

Perspiration, sweat.

Causing to sweat.

A diaphoretic.

A kind of process to which quicksilver is subjected.

Mucus.-Comp. -यन्त्रम् a steam-bath (for metals).

"https://sa.wiktionary.org/w/index.php?title=स्वेदनम्&oldid=264887" इत्यस्माद् प्रतिप्राप्तम्