स्वैरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वैरः, त्रि, (स्वेन स्वातन्त्र्येण ईर्त्ते इति । ईर गतौ + अच् । “स्वादीरेरिणोः ।” ६ । १ । ८९ । इत्यस्य वार्त्तिकोक्त्या वृद्धिः ।) स्वच्छन्दः । (यथा, रघुः । २ । ५ । “अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत् ।”) मन्दः । इति मेदिनी ॥ (यथा, महाभारते । ४ । ६६ । ४९ । “अथोत्तरः शुभैर्गन्धैर्माल्यैश्च विविधैस्तथा । आकीर्य्यमाणः संहृष्टो नगरं स्वैरमागमत् ॥” * ॥ वृथालापः । यथा, तत्रैव । १ । ४२ । २ । “नैवान्यथेदं भविता पितरेष ब्रवीमि ते । नाहं मृषा ब्रवीम्येव सैरेष्वपि कुतः शपन् ॥”)
