सामग्री पर जाएँ

स्वैरिन्ध्नी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

स्वैरिन्ध्नी, स्त्री, परवेश्मस्था स्ववशा शिल्पकारिणी नारी । इति शब्दरत्नावली ॥ परगृहस्था स्वतन्त्रा प्रसाधनानुलेपनादिशिल्पकारिणीति विशेषणत्रययुक्ता या सा सैरिन्ध्री । स्वैरं स्वाच्छन्द्यं धरतीति स्वैरिन्ध्री निपातनात् । स्वैरिन्ध्री परवेश्मस्था शिल्पकृत् स्ववशा स्त्रियाम् । इति दन्त्यादौ रभसः । इत्यमर- टीकायां भरतः ॥ अस्या रूपान्तरं सैरन्ध्री सैरिन्ध्रिः इति च टीकान्तरम् ॥

"https://sa.wiktionary.org/w/index.php?title=स्वैरिन्ध्नी&oldid=180480" इत्यस्माद् प्रतिप्राप्तम्