स्वोपार्ज्जित
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
स्वोपार्ज्जितः, त्रि, (स्वेनोपार्ज्जितः ।) स्वयम- र्ज्जितः । स्वयमुपात्तः । यथा, पिता चेत् पुत्त्रान् विभजेत् तस्य स्वेच्छा स्वयमुपात्तेऽर्थे पत्तामहे तु पितापुत्त्रयास्तुल्यं स्वामित्वम् । इति विष्णु- सूत्रम् । अपि च । मनुविष्णू । “पतृकन्तु पिता द्रव्यमनवाप्तं यदाप्नुयात् । न तत् पुत्त्रैर्भजेत् सार्द्धमकामः स्वयमर्जितम् ॥” तत् स्वयमर्जितमिति कृत्वा न विभजेदित्यन्वयः । एतत्तु स्थावरविषयम् । मण्यादावनुद्धृतेऽपि पितु- रेव स्वाच्छन्द्यम् । “स्थावरं द्विपदञ्चैव यद्यपि स्वयमर्जितम् । तसम्भूय सुतान् सर्व्वान् न दानं न च विक्रयः ॥ पितुः प्रसादात् भुज्यन्ते वस्त्राण्याभरणानि च । स्थावरन्तु न भुज्येत प्रसादे सति पतृके ॥” इति मिताक्षराधृतवचनमपि पितामहधन परम् । पित्रा च स्वोपार्जितं स्थावरं दत्तं भुज्यत एवेति । अन्यथा मूलभूतश्रुत्यन्तर- कल्पनापत्तः । इति दायतत्त्वम् ॥ * ॥ स्वापा- र्जितं द्विविधम् । पित्रादधनाद्युपधातेन स्वेनो- पार्जितम् । तदनुपघातेन उपार्जितञ्च । तद्धन- विभागविधिर्यथा । व्यासः । “अनाश्रित्य पितृद्रव्यं स्वशक्त्याप्नोति यद्धनम् । दायादभ्यो न तद्दद्यात् विद्यालब्धञ्च यद्भवेत् ॥” कात्यायनः । “द्व्यंशहरोऽर्द्धहरो वा पुत्त्रवित्तार्जनात् पिता ।” पुत्त्रवित्तार्जनात् । कृद्विहितो भावा द्रव्यवत् प्रकाशते इति न्य्ययात् पुत्त्रार्जितावत्तात् पितु- र्द्व्यंशित्वं पितृधनानुपघातविषयं भ्रातृधनोप- घातविंषयञ्च । अर्जकस्य तु द्व्यंशित्वम् । भ्रातृ- धनोपघाते तु तेषामप्येकांशित्वं वक्ष्यमाणवच- नात् । पितुरर्द्वहरत्वन्तु पितृद्रव्योपघाताद्गुण- वत्त्वाद्वा इति दायभागः ॥ अनुपघाते पिता द्व्यंशहरः । अर्जकत्वात् स्वयमपि द्व्यंशहरः । इतरेषामनंशित्वम् । भ्रातृद्रव्योपघाते तु तेषा- मप्येकांशः । इति द्ब्यंशार्द्धांशयोर्भेदकथनम् ॥ * ॥ साधारणधनार्जितेऽपि विशेषमाह व्यासः । “साधारणं समाश्रित्य यत्किञ्चित् वहनायुधम् । शौर्य्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः । तस्य भागद्वयं देयं शेषास्तु समभागिनः ॥” अत्र भ्रातर इत्युपलक्षणं पितृव्यादयोऽपि बोद्धव्याः । तस्यार्जकस्य । साधारणोपघाते यस्य यावतोऽंशस्थाल्पस्य महतो वा उपघात- स्तस्य तदनुसारेण भागकल्पना कार्य्या । इति दायभागः ॥ इति च दायतत्त्वम् ॥
