हञ्जे

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हञ्जे, व्य, नाट्योक्तौ चेदीसम्बोधनम् । यथा, -- “हण्डे हञ्जे हलाह्वानं नीचं चेटीं सखीं प्रति ॥” इत्यमरः । १ । ७ । १५ ॥ “हण्डे नीचसम्बोधनम् । हञ्जे चेटीसम्बोधनम् । हला सखी सम्बोधनम् । त्रयमेवाव्ययम् । यथा । हण्डे कुम्भिल । अरे हञ्जे काञ्चनमाले । हला सौन्तले इति । त्रयमप्यादन्तमव्ययमस्ति । हण्डा हञ्जा हला शब्दास्त्रयः सम्बोधनवाचकाः । इति प्राकृतवृत्तावव्ययपरिच्छेदे वसन्तराजः ॥ ‘हञ्जेति चेटिकाह्वानं सख्याह्वानं हलेति च । हण्डेति कुतसिताह्वानमार्य्यो मारिष उच्यते ॥” इति भागुरिश्च ॥ अनव्ययश्च हलाशब्दः सखीपर्य्यायोऽस्ति । बाला वासूः सखी हलेति त्रिकाण्डशेषे वोपालितः ॥’ अतृप्तोऽहं मरिष्यामि हे हले भाषितस्य चेति तडितमिश्रः । त्रयमिदमव्युत्पन्नम् ।” इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हञ्जे अव्य।

चेडीं_प्रत्याह्वानः

समानार्थक:हञ्जे

1।7।15।2।2

अत्तिका भगिनी ज्येष्ठा निष्ठानिर्वहणे समे। हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति॥

पदार्थ-विभागः : , गुणः, शब्दः, ध्वन्यात्मकः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हञ्जे(ञ्जा)¦ अव्य॰ हमित्यव्यक्तं जप्यतेऽत्र जप--डे डा वा। नाट्यक्रियायां नटाभिनेयकृते चेटीसम्बाधने अमरःटाबन्तस्तत्रार्थे भरतः आदन्तोऽप्यव्ययम् वसन्तराजः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हञ्जे¦ Ind. (In theatrical language,) A vocative particle to be used in addressing a female attendant. E. See हञ्जा |

"https://sa.wiktionary.org/w/index.php?title=हञ्जे&oldid=265530" इत्यस्माद् प्रतिप्राप्तम्