सामग्री पर जाएँ

हन्तकारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हन्तकारः, पुं, (हन्त इत्यस्य कारः करणम् ।) अतिथिदेयतण्डुलम् । इति केचित् ॥ हन्त- शब्दः । यथा । यत्तु । “निवीती हन्तकारेण मनुष्यांस्तर्पयेदथ । कुशस्य मध्यदेशेन नृतीर्थेन उदङ्मुखः ॥” इति लघुविष्णूक्तम् ॥ हन्तप्रयोगेण जलदानमुक्तं तत् सनकादिप्रत्येक- तर्पणे । यथा । सनकस्तृप्यतां तस्यैतदुदकं हन्त इत्यादौ । न तु पद्मपुराणीयमिलिततर्पणे । इत्याह्रिकाचारतत्त्वम् ॥ * ॥ अतिथये दानार्थ- षोडशग्रासाः । यथा, -- “पूजयेदतिथिं नित्यं नमस्योदर्च्चयेद्घिजम् । मनोवाक्कर्म्मभिः शान्तमागतं स्वगृहन्ततः ॥ हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः । दद्यादतिथये नित्यं बुद्ध्वा तं परमेश्वरम् ॥ भिक्षामाहुर्ग्रासमात्रमग्रञ्च स्याच्चतुर्गुणम् । पुष्कलं हन्तकारञ्च तच्चतुर्गुणमुच्यते ॥” इति कूर्म्मपुराणे उपविभागे । १८ । ११३-११५ ॥ अपि च । “भिक्षाञ्च याचतां दद्यात् परिव्राड्ब्रह्मचारि- णाम् । ग्रामप्रमाणं भिक्षा स्यादग्रं ग्रासचतुष्टयम् ॥ अप्रं चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः । भोजनं हन्तकारं वा अग्रं भिक्षामथापि वा । अदत्त्वा तु न भोक्तव्यं यथाविभवमात्मनः ॥” इति मार्कण्डेयपुराणे मदालसोपाख्याने । २९ । ३४ -- ३६ ॥

"https://sa.wiktionary.org/w/index.php?title=हन्तकारः&oldid=180624" इत्यस्माद् प्रतिप्राप्तम्