सामग्री पर जाएँ

हरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरः, पुं, (हरति पापानीति । हृ + अच् ।) शिवः । इत्यमरः । १ । १ । ३१ ॥ (यथा, रघुः । ४ । ३२ । “स सेनां महतीं कर्षन् पूर्ब्बसागरगामिनीम् । बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ॥”) अग्निः । गर्द्दभः । इति केचित् ॥ हरणम् । इत्यङ्कणास्त्रम् ॥ त्रि, हरणकर्त्ता । (यथा, भागवते । ३ । १८ । ११ । “एते वयं न्यासहरा रसौकसां गतह्नियो गदया द्रावितास्ते ॥”)

"https://sa.wiktionary.org/w/index.php?title=हरः&oldid=180689" इत्यस्माद् प्रतिप्राप्तम्