हरगौरी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरगौरी, स्त्री, (हरेण सह गौरी ।) अर्द्ध- नारोश्वरमूर्त्तिः । यथा, -- देव्युवाच । “यथा तवाहं सततं छायेवानुगता हर । भवेयं साहचर्य्येण तथा मां कत्तुमर्हसि ॥ मव्वगात्रेण संस्पर्शं नित्यालिङ्गनविभ्रमम् । अहमिच्छामि भवतस्तत्त्वं चेत् कर्त्तुमर्हसि ॥ श्रीभगवानुवाच । रोचते तन्मह्यमपि यत्त्वमिच्छसि भाविनि ! । तत्रोतायमहं वक्ष्ये यदि शक्नोषि तत् कुरु ॥ अद्धं मम शरीरस्य गृहाश त्वं मनोहरे । अद्धं भवा मे नारी तथैवार्द्ध पुमानिति ॥ यदि त्वं न हि शक्नोषि हर्त्तुं तत्त्वर्द्धमीदृशम् । एवमर्द्धं तथा जातं यीषिल्लक्षणसंयुतम् ॥ अपरं बलवद्भूरि सुदृढं पुरुषाकृति एवमर्द्धं स्मररिपार्ज्जहार गिरिजा सती ॥ हिताय सर्व्वजगतां कामाख्या कालिकोपमा । तस्याः शरीरं राजेन्द्र हरतन्वर्द्धसंयुतम् । येनोपमेयं तन्नास्ति मार्गितं भुवनत्रये ॥ सन्तानः पारिजातो वा एकान्तविषदस्तरुः । अमोघया तथा वन्द्यौ तौ चापि ययतुर्नहि ॥ बहुधा च पृथक्त्वेन तौ रेमाते नरेश्वर । अर्द्धनारोश्वरो भूत्वा स तु रम कदाचन ॥ इति यद्यपि भूतेशः स्वयं शक्नोति कालिकाम् । गौरीं कर्त्तुं तदा सर्व्वभूतकारणकारणः ॥ तथापि तां गिरिसुतां संयोज्य विविधैः पुरा । तपस्ययोजयद्देव क्रियो पायैरनेकशः ॥ तपोनिर्धूतसर्व्वाङ्गीं पश्चाद्गौरीमथाकरोत् । अर्द्धञ्च प्रददौ तस्यं शरीरस्य महेश्वरः ॥ नैवास्य तत्त्वं जानन्ति शक्राद्याः सकलाः सुराः । शरीरार्द्धप्रदानस्य तपसो योजनस्य च ॥ एतस्य तत्त्वं जानन्ति महात्मानो महाबलाः । नन्दी भृङ्गी महाकालो वेतालो भैरवस्तथा । अङ्गभूता महेशस्य वीतभीतास्तपोधनाः ॥ ये मानुषशरीरेण प्रापिरे तपसो बलात् । गणानामाधिपत्यन्तु ते जानन्ति हरं परम् ॥ एवं सदा त्वया योज्याः सानुगा नृपसत्तम ! । वनिताः सत्क्रियोपायैस्ततो भद्रमवाप्स्यसि ॥ य इदं शृणुयान्नित्यमद्भुतं पुण्यदायकम् । शिवयोः प्रीतिकरणं शरीरार्द्धं ग्रहं तथा ॥ गौरीत्वापादनञ्चैव कालिकायाः शुभावहम् । न तस्य विघ्ना जायन्ते स च पुण्यतमो मतः । दीर्घायुः स सुखी भूयात् पुत्त्रपीत्त्रसमन्वितः ॥ सततं परिशृण्वानः शिवयोश्चरितं महत् । शिवलाकमवाप्नोति सुचिरं शिवल्लभः ॥” इति श्रीकालिकापुराणे ४४ अध्यायः ।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरगौरी¦ f. (-री) One of the forms of S4IVA and PA4RVATI4 conjoined.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरगौरी/ हर--गौरी f. one of the forms of शिवor of शिवand पार्वतीconjoined(= अर्धनारी-श)
