हरिकेशः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरिकेशः, पुं, (हरिः पिङ्गलः केशो यस्य ।) शिवः । इति केचित् ॥ (यथा, महाभारते । १३ । १७ । ४४ । “दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च ॥” विष्णुः । यथा, महाभारते । ६ । ६२ । ५० । “महोरग वराहाद्य हरिकेश विभो ! जय ॥”) शिवभक्तयक्षविशेषः । स तु शिवप्रसादात् दण्ड- पाणित्वं क्षेत्रपालत्वादिकञ्च प्राप्तवान् । यथा, “एवमुक्त्वा ततो देवः सह देव्या जगत्पतिः । जगाम यक्षो यत्रास्ते कृशो धमनिसन्ततः । तं दृष्ट्वा प्रणतं भक्त्या हरिकेशं वृषध्वजः । दिव्यं चक्षुरदात्तस्मै यैनापश्यत् स शङ्करम् ॥ सूत उवाच । अथ यक्षस्तदा तत्र शनैरुम्मील्य चक्षुषी । अपश्यत् स शिवं देवं वृषं श्वेतमुपाश्रितम् ॥ देव उवाच । जरामरणनिर्मुक्तः सर्व्वशोकविवर्ज्जितः । भविष्यसि गणाध्यक्षो वरदः सर्व्वपूजितः ॥ अजेयश्चापि लोकानां योगैश्वर्य्यसमन्वितः । अन्नदश्चापि लोकेभ्यः क्षेत्रपालो भविष्यसि ॥ महाबलो महासत्त्वो ब्रह्मण्यो मम च प्रियः । त्र्यक्षश्च दण्डपाणिश्च महायोगी तथैव च ॥ उद्भ्रमः सम्भ्रमश्चैव गणौ ते परिचारकौ । तवाज्ञया करिष्येते लोकस्योद्भ्रमसम्भ्रमौ ॥” इति मात्स्ये । १० । ८८ -- ९० ९६ -- ९९ ॥
