सामग्री पर जाएँ

हरिचन्दन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरिचन्दनम्, पुं, क्ली, (हरेरिन्द्रस्य प्रियं चन्दनम् ।) देवतरुविशेषः यथा, -- “पञ्चैते देवतारवो मन्दारः पारिजातकः । सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥” इति स्वर्गवर्गे अमरः । १ । १ । ५३ ॥ देवभूमावेव सम्भवात् देवतरुः । चन्दयति आह्वादयति चन्दनं चदि आह्वादे दीप्तौ नन्द्यादित्वादनः । हरेरिन्द्रस्य चन्दनं हरि- चन्दनम् । इति तट्टीकायां भरतः ॥ * ॥ चन्दन- विशेषः । तत्पर्य्यायः । तैलपर्णिकम् २ गोशी- र्षम् ३ । इति मनुष्यवर्गे अमरः । २ । ६ । १३१ ॥ घौणि हरिचन्दने । चन्दनविशेषाणां पृथक् पृथक् नामानीत्यन्ये । तथा च तिलस्येव पर्ण- मस्य तिलपर्णो वृक्षभेदः ततो जातं तैलपर्णि- कम् । धवलं सुशीतलं चन्दनं तैलपर्णिकम् । गोः शीर्षं गोशीर्षं तदाकारे मलयैकदेशे जातं गोशीर्षम् । कालताम्रव्यामिश्रवर्णमुत्पलगन्धि अतिसुरभि शीतलतया सदैव सर्षैर्वेष्टितं गो- शीर्षम् । कपिलवर्णत्वात् हरि च तच्चन्दन- ञ्चेति हरिचन्दनम् । हरेरिन्द्रस्य चन्दनं वा । हरिर्मण्डूकस्तदाकारे पर्व्वतभागे जातत्वाद्वा हरिचन्दनम् । इति भरतः ॥ तत्पर्य्यायान्तरं सुरार्हम् २ हरिगन्धम् ३ इन्द्रचन्दनम् ४ दिव्यम् ५ दिविजम् ६ महागन्धम् ७ नन्दनजम् ८ लोहितजम् ९ । हरिचन्दनं कोकणे प्रसि- द्वम् । अस्य गुणाः । “हरिचन्दनन्तु दिव्यं हिमं तदिह दुर्व्वहं मनुजैः । पित्ताटोपविलोपि वमथुभ्रमशोषमान्द्यमेदो- हृत् ॥” इति राजनिर्घण्टः ॥ * ॥ (पीतचन्दनम् । कलम्व इति लोके । “कालीयकन्तु कालीयं पीताभं हरिचन्दनम् । हरिप्रियं कालसारं तथा कालानुसार्य्यकम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) पारिभाषिकहरिचन्दनं यथा, -- “घृष्टञ्च तुलसीकाष्ठं कर्पूरागुरुयोगतः । अथवा केशरैर्योज्यं हरिचन्दनमुच्यते ॥” इति पाद्मे पातालखण्डे १२ अध्यायः ॥

हरिचन्दनम्, क्ली, (हरिचन्दनं तद्वद्वर्णोऽस्त्यस्येति । अच् ।) ज्योत्स्ना । कुङ्कुमम् । इति मेदिनी ॥ पद्मकेशरम् । इति हलायुधः ॥ कान्ताङ्गम् । इति शब्दरत्नावली ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरिचन्दन पुं-नपुं।

देववृक्षः

समानार्थक:देवतरु,मन्दार,पारिजातक,सन्तान,कल्पवृक्ष,हरिचन्दन

1।1।50।2।3

पञ्चैते देवतरवो मन्दारः पारिजातकः। सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्.।

स्वामी : इन्द्रः

सम्बन्धि1 : देवः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, अलौकिकसस्यः

हरिचन्दन पुं-नपुं।

चन्दनविशेषः

समानार्थक:तैलपर्णिक,गोशीर्ष,हरिचन्दन

2।6।131।2।3

गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम्. तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरिचन्दन¦ न॰ हरेरिन्द्रस्य प्रियं चन्दनम् चन्दयतियदि--ल्यु

६ त॰ वा।

१ देवतरुभेदे अमरः। हरेर्विष्णोःप्रियं चन्दनम्।

२ श्वेतचन्दने

३ गोशीर्षनामके मलयेक-देशजाते चन्दनभेदे

४ ज्योत्स्नायां

५ कुङ्कुमे मेदि॰।

६ पद्मकेशरे हला॰।

७ सुन्दराङ्गे च न॰ शब्दर॰।
“हरिच-न्दनन्तु दिव्यं हिमं तदिह दुवेहं मनुजैः। पित्ताटोप-विलोपिवमथुभ्रवशोषमान्द्यमेदोहृत्” राजनि॰।
“घृष्टच तुलसीकाष्ठं कर्पूरागुरुयोगतः। अथ वा केश-रैर्योज्यं हरिचन्दनमुच्यते” पद्मपु॰ पा॰ ख॰

१२ अ॰उक्ते

८ संयुक्तद्रव्यगणे च।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरिचन्दन¦ mn. (-नः-नं)
1. A yellow and fragrant sort of Sandal wood.
2. One of the five trees of paradise, (the other four being, पारिजात, मन्दार, सन्तान and कल्प।) n. (-नं)
1. Saffron.
2. Moon-light.
3. The filament or farina of a lotus.
4. The person of a lover or mistress. E. हरि VISHN4U, or yellow, and चन्दन Sandal.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरिचन्दन/ हरि--चन्दन m. n. a sort of sandal tree S3is3. BhP. S3atr.

हरिचन्दन/ हरि--चन्दन m. yellow sandal MBh. Ka1v. etc. (in this sense prob. only n. ) , one of the five trees of paradise (the other four being पारिजात, मन्दार, संतान, and कल्प) Pan5car. Pan5cat.

हरिचन्दन/ हरि--चन्दन n. the pollen or filament of a lotus L.

हरिचन्दन/ हरि--चन्दन n. saffron ib.

हरिचन्दन/ हरि--चन्दन n. moonlight ib.

हरिचन्दन/ हरि--चन्दन n. the person of a lover or mistress ib.

"https://sa.wiktionary.org/w/index.php?title=हरिचन्दन&oldid=506248" इत्यस्माद् प्रतिप्राप्तम्