सामग्री पर जाएँ

हरिताल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरितालम्, क्ली, (हरितं तद्वर्णं आलातीति । आ + ला + कः ।) पीतवर्णधातुविशेषः । स तु हरेर्व्वीर्य्यम् । यथा, -- “हरितालं हरेर्व्वीर्य्यं लक्ष्मीवीर्य्यं मनःशिला । शोधितं कुरुते कान्तिं वीर्य्यवृद्धिं तथायुषः ॥” इति च भावप्रकाशः ॥

हरितालः, पुं, पीतवर्णपक्षिविशेषः । हरियाल इति भाषा । तस्य मांसगुणाः । “हरितालोऽल्पविट्कः स्यात् कषायो मधुरो लघुः । रक्तपित्तपशमनस्तृषाघ्नो वातकोपनः ॥” इति राजवल्लभः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरिताल¦ न॰ हरिवर्णस्य पीतवर्णस्य तालः प्रतिष्ठा यत्र।

१ पीतवर्णे उपधातुभेदे
“स हरितालसमाननवांशुकः” माघः।

२ पीतवर्णपक्षिभेदे पुंस्त्री॰ राजनि॰। स्त्रियां ङीष्। स्वार्थे क। हरिताले न॰ अमरः।
“हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञकम्। तयो-राद्यं गुणैः श्रेष्ठं ततो हीनगुणं परम्। स्वर्णवर्णंगुरु स्निग्धं सपत्रं आभ्रपत्रवत्। पत्राख्यं तालकं विद्याद्गुणाद्यं तद्रसायनम। निष्पवं पिण्डसदृशं स्वल्पसत्वंतथा गुरु। स्त्रीपुष्पहारकं स्वल्पगुणं तत् पिण्डतालकम्। हपति च हरितालञ्चारुता देहजाताम् सृजति चबहुतापामङ्गसङ्कोचपीडाम्। वितरति कफवातौकुष्ठरोगं विदध्यादिदमशितमशुद्धम् मारितञ्चाप्यसम्यक्”।
“तालकं कणशः कृत्वा तच्चूर्णं काञ्जिके पचेत्। दोला-यन्त्रेण यामैकं ततः कूष्माण्डजद्रवैः। तिलतैले पचेद्याम यामञ्च त्रिफलाजले। एवं यन्त्रे चतुर्य्यामं पक्वशुद्ध्यति तालकम्”। अथ तालस्य मारणविधिः
“सदलंतालकं शुद्धं पौनर्नवरसेन तु। खल्वे विमर्दयेदेकं दिनंपश्चाद्विशाषयेत्। ततः पुनर्नवाक्षारैः स्थाल्यामूर्द्धं प्रपू-रयेत्। तत्र तद्वोलकं धृत्वा पुनस्तेमैव पूरयेत्। आकण्ठंपिठरं तस्य पिधानं धारयेन्मुखे। स्थालीं चुल्यां समारोप्य कमादु{??} विवर्द्धयेत्। दिनान्यन्तरशून्यानि[Page5418-b+ 38] पञ्च वह्निं प्रदापयेत्। एवं तन्म्रियते तालं मात्रातस्यैकरक्तिका। अनुपानान्यनेकानि यथायोग्यं प्रयो-जयेत्”। एवं शोधितस्य मारितस्य तालकस्य गुणाः।
“हरितालं कटु स्निग्धं कषायोष्णं हरेद्विषम्। कण्डूकुष्ठास्यरोगाम्रकफपित्तकचव्रणान्”।
“ता{??}कं हरतेरोगान् कुष्ठमृत्युज्वरापहम्। शोधितं कुरुते कान्तिंवीर्य्यवृर्द्धिं तथायुषम्” भावप्र॰। हरितालखगमांसगुणाः
“हरितालोऽल्पविट्कः स्यात्कषायो मधुरो लघुः। रक्तपित्तपशमनस्तृषाघ्नो वात-कोपनः” राजनि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरिताल¦ n. (-लं) Yellow orpiment. f. (-ली)
1. Bent grass, (Panicum dactylon.)
2. A streak or line in the sky, the milky way.
3. A sort of creeper.
4. A kind of pigeon. E. हरित green, अल् to possess or adorn, aff. अण्, fem. aff. ङीष् |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरिताल [haritāla], &c. See under हरि.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरिताल m. a kind of pigeon of a yellowish green colour , Columba Hurriyala L.

हरिताल n. yellow orpiment or sulphuret of arsenic (described as the seed or seminal energy of विष्णु= हरेर् वीर्यम्) MBh. Hariv. etc.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

HARITĀLA (Ṁ) A : mineral (yellow orpiment) got from mountains, which is red like the clouds at dusk. (Vana Parva, Chapter 158, 94).

_______________________________
*7th word in left half of page 310 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=हरिताल&oldid=506279" इत्यस्माद् प्रतिप्राप्तम्