हरितालः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरितालः, पुं, पीतवर्णपक्षिविशेषः । हरियाल इति भाषा । तस्य मांसगुणाः । “हरितालोऽल्पविट्कः स्यात् कषायो मधुरो लघुः । रक्तपित्तपशमनस्तृषाघ्नो वातकोपनः ॥” इति राजवल्लभः ॥
