हरितालम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरितालम्, क्ली, (हरितं तद्वर्णं आलातीति । आ + ला + कः ।) पीतवर्णधातुविशेषः । स तु हरेर्व्वीर्य्यम् । यथा, -- “हरितालं हरेर्व्वीर्य्यं लक्ष्मीवीर्य्यं मनःशिला । शोधितं कुरुते कान्तिं वीर्य्यवृद्धिं तथायुषः ॥” इति च भावप्रकाशः ॥
