सामग्री पर जाएँ

हरितालिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरितालिका, स्त्री, दूर्व्वा । इति त्रिकाण्डशेषः ॥ सौरभाद्रशुक्लचतुर्थी हरितालिका । सौरभाद्र- कृष्णचतुर्थ्यामुदितचन्द्रस्य नष्टचन्द्र इति संज्ञा । इति पञ्जिकायां प्रसिद्धा । तत्र चन्द्रदर्शननिषेधो यथा । भोजदेवः । “शुक्लपक्षे चतुर्थ्यान्तु सिंहे चन्द्रस्य दर्शनम् । मिथ्याभिशापं कुरुते न पश्येत्तत्र तन्ततः ॥” चतुर्थ्यां दर्शननिषेध्यत् तत्रोदितस्य चन्द्रस्य पञ्चम्यां दर्शने तु न दोषः । अतः । “पञ्चाननगते भानौ पक्षयोरुभयोरपि । चतुर्थ्यामुदितश्चन्द्रो नेक्षितव्यः कदाचन ॥” चतुर्थ्यां नेक्षितव्य इति मुनिभिरुदित उक्त इत्यर्थः । अथवा चतुर्थ्यामित्यस्य प्रधानक्रिया- न्वयाभ्यर्हितत्वादीक्षितव्य इत्यनेनान्वयो न तूदित इत्यनेन । तथा च अव्यक्तं प्रधानगामि इति सूत्रेअव्यक्तस्य शब्दस्य प्रधानेन सह सम्बन्ध इति भट्टनारायणव्याख्यानं इति । उदितस्त्वर्द्धो- दितव्यावृत्तिपरः स्वरूपाख्यानपरो वा । “ब्राह्मणी तु शुना दष्टा जम्बुकोष्ट्रेण वा गवा । उदितं सोमनक्षत्रं दृष्ट्वा सद्यः शुचिर्भवेत् ॥” इति पराशरोक्तोदित इतिवत् ॥ * ॥ नन्वेकपदस्य कथमनेकार्थता इति चेन्न यावन्तो- ऽर्थास्तावन्ति पदानीति । तथा चोक्तम् । “यावतामेव धातूनां लिङ्गं रूढिगतं भवेत् । अर्थश्चैवाभिधेयस्तु तावद्भिर्गुणविग्रहः ॥” शिङ्गं समार्थम् । रूढिगतं प्रसिद्धम् । न त्वप्रसिद्धम् । हन हिंसागत्योरित्यादौ गमना- दिकम् । अभिधेयो वाच्यः । तावद्भिर्धातुभि- र्गुणविग्रहो गुणैर्गणनाभिर्विग्रहो ग्रहणं यत्रार्थे स तथा । एतेन धातुसमसंख्यार्थत्वं पदस्य । ब्रह्मपुराणे सिंहार्काधिकारे । “नारायणोऽभिशप्तस्तु निशाकरमरीचिषु । स्थितश्चतुर्थ्यामद्यापि मनुष्याय पतेच्च सः ॥ अतश्चतुर्थ्यां चन्द्रन्तु प्रमादाद्वीक्ष्य मानवः । पठेद्धात्रेयिकावाक्यं प्राङ्मुखो नाप्युदङ्मुखः ॥ अभिशप्तः परीवादविषयीभूतः । सोऽभिशापः । धात्रेयिकावाक्यं विष्णुपुराणे । “सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः । सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः ॥” अनेन मन्त्रेणाभिमन्त्रितं जलं पेयं आचारात् स्यमन्तकोपाख्यानञ्च श्रोतव्यम् । इति तिथ्यादि- तत्त्वम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरितालिका¦ स्त्री हरेस्तालो हस्ततालो यस्यां कप् अतइत्त्वम्।

१ सौरभाद्रशुक्लचतुर्थ्याम् हरितवर्णायअलति पर्य्याप्नोति अल--ण्वुल्।

२ दूर्वायाम् त्रिका॰। अण् ङीप्। हरिताली दूर्वायाम् सा च आकाश-रेखायां मेदि॰ खङ्गलतायाम् हरितालिकायाञ्च।
“भाद्रे मासि सिते पक्षे वसुदैवतसंयुता। हरित लोचतुर्थी स्यात् सर्वाणीप्रीतिदा सदा। भाद्रे मासि सितेपक्षे चतुर्थ्याख्याभियोगतः। ददाति किल्विषं घोरंदृष्टश्चन्द्रो न संशयः। करचित्रानलर्क्षेषु हरौ सूर्य्येचतुर्थिका। हरिताली{??}माख्या{??} रुद्राणीप्रीतिदासदा” राजमार्त्तण्डः

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरितालिका¦ f. (-का)
1. A sort of grass, (Panicum dactylon, Rox.)
2. The fourth lunar day of the month of Bha4drapada. E. कन् added to हरिताल, fem. form.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरितालिका f. See. next.

हरितालिका f. Panicum Dactylon L.

हरितालिका f. the fourth (or third) day of the light half of the month भाद्रL.

"https://sa.wiktionary.org/w/index.php?title=हरितालिका&oldid=506281" इत्यस्माद् प्रतिप्राप्तम्