सामग्री पर जाएँ

हरिद्गर्भः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरिद्गर्भः, पुं, (हरिद्वर्णो गर्भो यस्य ।) हरिद्वर्ण- कुशः । हरिदर्भ इति च पाठः । तत्पर्य्यायः । खरपत्रः २ बृहच्छदः ३ अत्र पृथुच्छदोऽपि पाठः । शीरी ४ रूक्षदर्भः ५ दीर्घपत्रः ६ पवित्रकः ७ । अस्य गुणाः । “दर्भौ द्वौ च गुणे तुल्यौ तथापि च सिता- धिकः । यदि श्वेतकुशाभावे त्वपरं योजयेद्भिषक् ॥” इति राजनिर्घण्टः ॥ अपि च । “दर्भद्वयं त्रिदोषघ्नं मघुरं तुवरं हिमम् । मूत्रकृच्छ्राश्मरीतृष्णावस्तिरुक्प्रदरास्रजित् ॥” इति भावप्रकाशः ॥ तन्मूलगुणाः । “कुशमूलं हिमं रुच्यं मधुरं पित्तनाशनम् । रक्तज्वरतृषाश्वासकामलादोषमोक्षकृत् ॥” इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=हरिद्गर्भः&oldid=180765" इत्यस्माद् प्रतिप्राप्तम्