हरिद्रागणेश
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरिद्रागणेशः, पुं, (हरिद्रावर्णो गणेशः ।) गणेशविशेषः । तन्मन्त्रो यथा, -- अथ हरिद्रागणेशः । “पङ्कान्तको धरासंस्थो बिन्दुभूषितमस्तकः । एकाक्षरो महामन्त्रः सर्व्वकामफलप्रदः ॥” अथ वशिष्ठ ऋषिर्गायत्त्री च्छन्दो हरिद्रागण- पतिर्देवता गकारो बीजं लकारः शक्तिर्बीजे- नैव षडङ्गकम् । ध्यानन्तु । “हरिद्राभं चतुर्ब्बाहुं हारिद्र्यवसनं विभुम् । पाशाङ्कुशधरं देवं मोदकं दन्तमेव च ॥” ऐवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनादि- पीठमन्वन्तां पीठपूजां विधाय पुनर्ध्यात्वा गण- पतिं पूजयेत् । आवरणपूजाविनियोगादिकं एकाक्षरगणपतिवत् । अस्य पुरश्चरणं चतु- र्लक्षजपः । त्रिमधुरयुक्तहरिद्राचूर्णमिश्रितै- स्तण्डुलैरयुतहोमः । इत्यादि तन्त्रसारः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरिद्रागणेश¦ पु॰ हरिद्रावर्णयुक्तो गणेशः। पीतवर्णेगणेशभेदे तन्त्रसारः।
