सामग्री पर जाएँ

हरिद्वारम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरिद्वारम्, क्ली, (हरेस्तत्प्राप्तेर्द्वारमिव ।) स्वनाम- ख्यातनगरम् । तत्तु तीर्थविशेषः । यथा, -- “शृणु देवि महामाये पठेच्चण्डीं शृणोत्यपि । गयायाञ्चैव यत् पुण्यं काश्यां विश्वेश्वराग्रतः ॥ प्रयागे मुण्डनाच्चैव हरिद्वारे हरेर्गृहे । तुल्यं पुण्यं भवेद्देवि सत्यं दुर्गे शिवे रमे ॥” इति रुद्रयामले हरगौरीसंवादे रुद्रचण्डी ॥ * ॥ तत्र गङ्गावतरणात् गङ्गाद्वारमिति ख्यातम् । तत्र स्नानादिफलं यथा, -- “ततो गच्छेत धर्म्मज्ञ नमस्कृत्य महागिरिम् । स्वर्गद्वारेण तत्तुल्यं गङ्गाद्वारं न संशयः ॥ तत्राभिषेकं कुर्व्वीत कोटितीर्थे समाहितः । लभते पुण्डरीकन्तु कुलञ्चैव समुद्धरेत् ॥ तत्रैकरात्रिवासेन गोसहस्रफलं लभेत् ॥” इति पाद्मे भूमिखण्डे १२ अध्यायः ॥ अपिच । “सर्व्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा । गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे ॥ सवासवाः सुराः सर्व्वे गङ्गाद्वारं मनोरमम् । समागत्य प्रकुर्व्वन्ति स्नानदानादिकं मुने ! ॥ दैवयोगान्मुने तत्र ये त्यजन्ति कलेवरम् । मनुष्यपक्षिकीटाद्यास्ते लभन्ते परं पदम् ॥” इति तत्रैव क्रियायोगसारे ३ अध्यायः । * ॥ पुस्तकान्तरे गङ्गाद्वारस्थाने हरिद्वारमिति पाठः ॥

"https://sa.wiktionary.org/w/index.php?title=हरिद्वारम्&oldid=180780" इत्यस्माद् प्रतिप्राप्तम्