हरिनाम
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरिनाम, [न्] क्ली, (हरेर्नाम ।) श्रीहरे- राख्यानम् । तन्माहात्म्यं यथा, -- “न कालनियमस्तत्र न देशनियमस्तथा । तस्य सिद्धिर्भवेद्विद्या अष्टैश्वर्य्यमवाप्नुयात् ॥ रहस्यं हि विना पुत्त्र ! श्रम एव हि केवलम् । अतएव सुतश्रेष्ठ ! रहस्यरहितस्तव । रहस्यरहितां विद्यां न जपेत्तु कदाचन ॥ * ॥ हकारस्तु सुतश्रेष्ठ ! शिवः साक्षान्न संशयः । रेफस्तु चिपुरादेवी मम मूर्त्तिमयी सदा ॥ एकारञ्च भगं विद्यात् साक्षाद्योनिं तपो- धन ! । एकारः शून्यरूपी च रेफो विग्रहधारिणः । हरे तु त्रिपुरा साक्षान्मम मूर्त्तिर्न्न संशयः ॥ ककारः कामदा कामरूपिणी स्फुरदव्ययम् । ऋकारश्च सुतश्रेष्ठ ! ज्येष्ठा शक्तिरितोरिता ॥ ककारश्च ऋकारश्च कामिनी वैष्णवी कला ॥ षकारश्चन्द्रमा देवः कलाषोडशसंयुतः ॥ णकारश्च सुतवर ! साक्षान्निर्वृत्तिरूपिणी । द्वयोरैक्यं तपःश्रेष्ठ ! महामाया जगन्मयी ॥ कृष्ण कृष्ण सुतश्रेष्ठ ! महामाया जगन्मयी । हरे हरे ततो देवि ! शिवशक्तिस्वरूपिणी ॥ हरे रामेति च पदं शिवशक्तिमयं सुत ! । हरे हरे इति पदं शक्तिद्वयसमन्वितम् ॥ आद्यन्ते प्रणवं दत्त्वा यो जपेद्दशधा द्विजः । स भवेत् सुतवर ! श्रेष्ठो महाविद्यासु सुन्दरः ॥ हरिनाम सुतश्रेष्ठ ! ज्येष्ठं तु वैष्णवं मतम् ॥ एवं षोडश नामानि द्वात्रिंशदक्षराणि च । आद्यन्ते प्रणवं दत्त्वा चतुस्त्रिं शदनुत्तम ! ॥ हरिनाम विना पुत्त्र ! दीक्षा च विफला सदा । कुलदेवमुखाच्छ्रुत्वा हरिनाम पराक्षरम् ॥ ब्राह्मणक्षत्त्रवैश्याश्च शूद्रः श्रुत्वा पराक्षरम् । दीक्षां कुर्य्यात् सुतश्रेष्ठ ! महाविद्यासु सुन्दर ! ॥ दीक्षां वापि हरेर्न्नाम यदि शूद्रमुखात् प्रिये ! । अज्ञानाद्यदि गृह्णीयात् तस्य पापफलं शृणु ॥ शूद्रः शूद्रमुखात् श्रुत्वा विद्यां वा मन्त्रमुत्तमम् । कोटिवंशान् समादाय रौरवं प्रति गच्छति । अपि दातृगृहीत्रोर्वा द्वयोरपि समं फलम् ॥ ब्रह्महत्यामवाप्नोति अक्षरं अक्षरं प्रति । शृणु पुत्त्र ! वासुदेवप्रसङ्गाद्वचनं मम ॥” इति श्रीवासुदेवमाहात्म्ये राधातन्त्रे त्रिपुरा- वासुदेवसंवादे द्वितीयपटलः ॥
