हरिवासर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरिवासरम्, क्ली, (हरेर्वासरम् ।) श्रीहरेर्द्दिनम् । तत्तु एकादशीद्वादशीतिथिरूपम् । यथा, -- “एकादशी द्बादशी च प्रोक्ता श्रीचक्रपाणिनः ॥” “एकादशीमुपोस्यैव द्वादशीं समुपोषयेत् । न चात्र विधिलोपः स्यादुभयोर्देवता हरिः ॥” इति च तिय्यादितत्त्वम् ॥ अपि च । “यानि कानि च पापानि ब्रह्महत्यादिकानि च । अन्नमाश्रित्य सर्व्वाणि तिष्ठन्ति हरिवासरे ॥ अघं स केवलं भुङ्क्ते यो भुङ्क्ते हरिवासरे ॥” इत्येकादशीतत्त्वम् ॥ * ॥ द्वादश्याः प्रथमपादः । यथा । विष्णुधर्म्मोत्तरे । “द्वादश्याः प्रथमः पादो हरिवासरसंज्ञकः । तमतिक्रम्य कुर्व्वीत पारणं विष्णुतत्परः ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ रात्रौ मार्जयते शौरिः पापं तस्य युगा- र्ज्जितम् ॥” इति श्रीहरिभक्तिविलासे १३ विलासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरिवासर¦ न॰ हरिप्रियं वासरम्।
१ एकादशीदिवसे
२ द्वा-दशीप्रथमपादे च।
“अन्नमाश्रित्य पापानि तिष्ठन्तिहरिवासरे” इति।
“द्वादश्याः प्रथमः पादो हरि-[Page5420-b+ 38] वासरसंज्ञक” इति च एकादशीतत्त्वे विष्णुधर्मो॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरिवासर¦ m. (-रः) The eleventh day of a lunar fortnight; also हरिदिन |
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरिवासर/ हरि--वासर n. विष्णु's day (the 11th or 12th lunar day , or accord. to some , the first quarter of the 12th -llunar -dday) , Kr2ishn2aj.