सामग्री पर जाएँ

हरिवासरम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरिवासरम्, क्ली, (हरेर्वासरम् ।) श्रीहरेर्द्दिनम् । तत्तु एकादशीद्वादशीतिथिरूपम् । यथा, -- “एकादशी द्बादशी च प्रोक्ता श्रीचक्रपाणिनः ॥” “एकादशीमुपोस्यैव द्वादशीं समुपोषयेत् । न चात्र विधिलोपः स्यादुभयोर्देवता हरिः ॥” इति च तिय्यादितत्त्वम् ॥ अपि च । “यानि कानि च पापानि ब्रह्महत्यादिकानि च । अन्नमाश्रित्य सर्व्वाणि तिष्ठन्ति हरिवासरे ॥ अघं स केवलं भुङ्क्ते यो भुङ्क्ते हरिवासरे ॥” इत्येकादशीतत्त्वम् ॥ * ॥ द्वादश्याः प्रथमपादः । यथा । विष्णुधर्म्मोत्तरे । “द्वादश्याः प्रथमः पादो हरिवासरसंज्ञकः । तमतिक्रम्य कुर्व्वीत पारणं विष्णुतत्परः ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ रात्रौ मार्जयते शौरिः पापं तस्य युगा- र्ज्जितम् ॥” इति श्रीहरिभक्तिविलासे १३ विलासः ॥

"https://sa.wiktionary.org/w/index.php?title=हरिवासरम्&oldid=180826" इत्यस्माद् प्रतिप्राप्तम्