हरिशयनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
हरिशयनम्, क्ली, (हरेः शयनम् ।) श्रीहरेर्निद्रा । यथा । उपनयने दीपिकायाम् । “जीवार्केन्दूडशुद्धौ हरिशयनबहिर्भास्करे चोत्त- रस्थे स्वाध्याये वेदवर्णाधिप इह श्रुभदे क्षौरभे नादितौ च ।” इत्यादि ज्योतिस्तत्त्वम् ॥ * ॥ तद्विधिर्यथा । वामनपुराणे । “एकादश्यां जगत्स्वामिशयनं परिकल्पयेत् । शेषाहिभोगपर्य्यङ्कं कृत्वा संपूज्य केशवम् ॥ अनुज्ञां ब्राह्मणेभ्यश्च द्वादश्यां प्रयतः शुचिः । लब्ध्वा पीताम्बरधरं देवं निद्रां समानयेत् ॥” अनुज्ञां लब्ध्वेत्यन्वयः । एकादशीसमये दिवा शयनं परिकल्पयेत् रात्रौ द्वादशीक्षणे निद्रेति ॥ * ॥ व्यक्तं वाराहे । “आषाढशुक्लद्वादश्यां पौर्णमास्यामथापि वा । चातुर्म्मास्यव्रतारम्भं कुर्य्यात् कर्क्कटसंक्रमे ॥ अभावे तु तुलार्केऽपि मन्त्रेण नियमं व्रती । कार्त्तिके शुक्लद्वादश्यां विधिवत्तत् समापयेत् ॥ चतुर्धापि हि तच्चीर्णं चातुर्म्मास्यं व्रतं नरः । कार्त्तिक्यां शुक्लपक्षे तु द्वादश्यां तत्समापयेत् ॥” मात्स्ये । “चतुरो वर्षिकान् मासान् देवस्योत्थापना- वधि । मधुस्वरो भवेन्नित्यं नरो गुडविवर्ज्जिनात् ॥ तैलस्य वर्ज्जनादेव सुन्दराङ्गः प्रजायते । कटुतैलपरित्यागात् शत्रुनाशः प्रजायते ॥ लभते सन्ततिं दीर्घां स्थालीपाकमभक्षयन् । सदा मुनिः सदा योगी मधुमांसस्य वर्ज्जनात् ॥ निराधिर्नीरुगोजस्वी विष्णुभक्तश्च जायते ! एकान्तरोपवासेन विष्णुलोकमवाप्नुयात् ॥ धारणान्नखलोम्नाञ्च गङ्गास्नानं दिने दिने । ताम्बूलवर्ज्जनाद्भोगी रक्तकण्ठश्च जायते ॥ घृतत्यागात् सुलावण्यं सर्व्वं स्निग्धं वपुर्भवेत् । फलत्यागात्तु मतिमान् बहुपुत्त्रश्च जायते ॥ नमो नारायणायेति जप्त्वानशनजं फलम् । पादामिवन्दनाद्विष्णोर्लभेद्गोदानजं फलम् । रवत्यन्तपादयोगे दिनतृतीयभागे इति विशेषः ॥ शयने मन्त्रमाह वराहपुराणम् । “नमो नारायणायेत्युक्त्वा इमं मन्त्रमुदीरयेत् । पश्यन्तु मेघान्यपि मेघश्यामं ह्युपागतं सिच्यमानं महीमिमाम् । निद्रां भगवान् गृह्णातु लोकनाथ वर्षास्विमं पश्यतु मेघवृन्दम् ॥ ज्ञात्वा च पश्यैव च देवनाथ मासाश्चत्वारि वैकुण्ठस्य तु पश्यनाथ ! ॥” ततश्च । “सुप्ते त्वयि जगन्नाथे जगत् सुप्तं भवेदिदम् । विबुद्धे त्वयि बुध्येत जगत् सर्व्वं चराचरम् ॥” इत्यनेन पूजयेत् ॥ * ॥ पार्श्वपरिवर्त्तने तु । “वासुदेव जगन्नाथ प्राप्तेयं द्वादशी तव । पार्श्वेन परिवर्त्तस्व सुखं स्वपिहि माधव ! ॥” इति पठेत् ॥ “त्वयि सुप्ते जगन्नाथे जगत् सुप्तं भवेदिदम् । विबुद्धे त्वयि बुध्येत जगत् सर्व्वं चराचरम् ॥” इत्यनेन पूजयेत् ॥ नैयतकालिककल्पतरौ ब्रह्मपुराणम् । कार्त्तिक- शुक्लपंक्षमधिकृत्य । “उपवासः प्रकर्त्तव्य एकादश्यां प्रजागरः । द्वादश्यां वासुदेवश्च पूजितव्यः प्रयत्नतः ॥” * ॥ उत्थानमन्त्रस्तु । महेन्द्ररुद्रैरभिनूयमानो भवानृषिर्बन्दितवन्दनीयः । प्राप्ता तवेयं किल कौमुदाख्या जागृष्व जागृष्व च लोकनाथ ! ॥ मेघा गता निर्म्मलपूर्णचन्द्रः शारद्यपुष्पाणि च लोकानाथ ! । अहं ददानीति च पुण्यहेतो- र्ज्जागृष्व जागृष्व च लोकानाथ ! ॥” ततः । “उत्तिष्ठोत्तिष्ठ गोविन्द त्यज निद्रां जगत्पते ! त्वया चोत्थीयमानेन उत्थितं भुवनत्रयम् ॥” इति पठित्वा पूजयेत् ॥ इति तिथ्यादित्त्वम् ॥
