सामग्री पर जाएँ

हरिशरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

हरिशरः, पुं, (हरिः शरो यस्य ।) शिवः । इति केचित् ॥ त्रिपुरदहनार्थं हरिरेव यतस्तस्य शरोऽभूत्तस्मात् । यथा, पुष्पदन्तः । “रथः क्षौणी यन्ता शतधृतिरगेन्द्रो धनुरथो रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति । निधक्षोस्ते कोऽयं त्रिपुरतृणमाडम्वरविघि- र्विधेयैः क्रीडन्तो न खलु परतन्त्राः प्रभुधियः ॥”

"https://sa.wiktionary.org/w/index.php?title=हरिशरः&oldid=180836" इत्यस्माद् प्रतिप्राप्तम्